ऋग्वेद - मण्डल 10/ सूक्त 8/ मन्त्र 4
ऋषिः - त्रिशिरास्त्वाष्ट्रः
देवता - अग्निः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒षौ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ । ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥
स्वर सहित पद पाठउ॒षःऽउ॑षः । हि । व॒सो॒ इति॑ । अग्र॑म् । एषि॑ । त्वम् । य॒मयोः॑ । अ॒भ॒वः॒ । वि॒भाऽवा॑ । ऋ॒ताय॑ । स॒प्त । द॒धि॒षे॒ । प॒दानि॑ । ज॒नय॑न् । मि॒त्रम् । त॒न्वे॑ । स्वायै॑ ॥
स्वर रहित मन्त्र
उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा । ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे३ स्वायै ॥
स्वर रहित पद पाठउषःऽउषः । हि । वसो इति । अग्रम् । एषि । त्वम् । यमयोः । अभवः । विभाऽवा । ऋताय । सप्त । दधिषे । पदानि । जनयन् । मित्रम् । तन्वे । स्वायै ॥ १०.८.४
ऋग्वेद - मण्डल » 10; सूक्त » 8; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 4
Meaning -
Agni, Vasu, sustainer of life, generating the sun for the manifestation of your self, you rise first with every dawn, illuminate the day and distinguish both day and night, and for conduct of the yajna of existence you bear the seven flames of fire and seven rays of light.