Loading...
ऋग्वेद मण्डल - 10 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 13
    ऋषिः - अर्बुदः काद्रवेयः सर्पः देवता - ग्रावाणः छन्दः - विराड्जगती स्वरः - निषादः

    तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभि॑: । वप॑न्तो॒ बीज॑मिव धान्या॒कृत॑: पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥

    स्वर सहित पद पाठ

    तत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ । वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥


    स्वर रहित मन्त्र

    तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभि: । वपन्तो बीजमिव धान्याकृत: पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥

    स्वर रहित पद पाठ

    तत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ । इत् । उपब्दिऽभिः । वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः ॥ १०.९४.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 13
    अष्टक » 8; अध्याय » 4; वर्ग » 31; मन्त्र » 3

    Meaning -
    Veteran sages on way to freedom from the bonds of mortality speak of immortal Indra like bards in a state of ecstasy. As the farmer, having sowed the corn, guards it till ripeness, they, enjoying the soma experience, guard and mature the nectar, they do not violate it, never destroy the taste of immortality.

    इस भाष्य को एडिट करें
    Top