ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 14
ऋषिः - अर्बुदः काद्रवेयः सर्पः
देवता - ग्रावाणः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्त॑: । वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥
स्वर सहित पद पाठसु॒ते । अ॒ध्व॒रे । अधि॑ । वाच॑म् । अ॒क्र॒त॒ । आ । क्री॒ळयः॑ । न । मा॒तर॑म् । तु॒दन्तः॑ । वि । सु । मु॒ञ्च॒ । सु॒सु॒ऽवुषः॑ । म॒नी॒षाम् । वि । व॒र्त॒न्ता॒म् । अद्र॑यः । चाय॑मानाः ॥
स्वर रहित मन्त्र
सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्त: । वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥
स्वर रहित पद पाठसुते । अध्वरे । अधि । वाचम् । अक्रत । आ । क्रीळयः । न । मातरम् । तुदन्तः । वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ॥ १०.९४.१४
ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 14
अष्टक » 8; अध्याय » 4; वर्ग » 31; मन्त्र » 4
अष्टक » 8; अध्याय » 4; वर्ग » 31; मन्त्र » 4
Meaning -
Just as children in love vex the mother while playing, so when the yajna is on and soma is extracted, let the sages recite the hymns with love and a sense of freedom and release in spontaneity and then let them retire with love and reverence into rest and silence.