ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 16
ऋषिः - उर्वशी
देवता - पुरुरवा ऐळः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑: श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥
स्वर सहित पद पाठयत् । विऽरू॒पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः । घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥
स्वर रहित मन्त्र
यद्विरूपाचरं मर्त्येष्ववसं रात्री: शरदश्चतस्रः । घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥
स्वर रहित पद पाठयत् । विऽरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः । घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥ १०.९५.१६
ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 16
अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 1
Meaning -
When I came down from the divine into this different earthly form living happily for four years among mortals, I have lived on one time little drop of ghrta a day, and content with that alone I sojourn among men.