ऋग्वेद - मण्डल 3/ सूक्त 1/ मन्त्र 21
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
जन्म॑न्जन्म॒न् निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः। तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म॥
स्वर सहित पद पाठजन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः । वि॒श्वामि॑त्रेभिः । इ॒ध्य॒ते॒ । अज॑स्रः । तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
स्वर रहित मन्त्र
जन्मन्जन्मन् निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम॥
स्वर रहित पद पाठजन्मन्ऽजन्मन्। निऽहितः। जातऽवेदाः। विश्वामित्रेभिः। इध्यते। अजस्रः। तस्य। वयम्। सुऽमतौ। यज्ञियस्य। अपि। भद्रे। सौमनसे। स्याम॥
ऋग्वेद - मण्डल » 3; सूक्त » 1; मन्त्र » 21
अष्टक » 2; अध्याय » 8; वर्ग » 16; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 16; मन्त्र » 6
Meaning -
Jataveda, Agni, immanent and omnipresent in every particle of creation, is constantly and eternally lighted, served and celebrated by the sagely friends of the world. We pray that we too may ever abide in the kind and gracious heart and mind of the venerable lord worshipped in yajna and social gatherings and ever enjoy the benefit of his benevolence.