ऋग्वेद - मण्डल 4/ सूक्त 54/ मन्त्र 5
इन्द्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः। यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥५॥
स्वर सहित पद पाठइन्द्र॑ऽज्येष्ठान् । बृ॒हत्ऽभ्यः॑ । पर्व॑तेभ्यः॑ । क्षया॑न् । ए॒भ्यः॒ । सु॒व॒सि॒ । प॒स्त्य॑ऽवतः । यथा॑ऽयथा । प॒तय॑न्तः । वि॒ऽये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः॒ । स॒वि॒त॒रिति॑ । स॒वाय॑ । ते॒ ॥
स्वर रहित मन्त्र
इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः। यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥५॥
स्वर रहित पद पाठइन्द्रऽज्येष्ठान्। बृहत्ऽभ्यः। पर्वतेभ्यः। क्षयान्। एभ्यः। सुवसि। पस्त्यऽवतः। यथाऽयथा। पतयन्तः। विऽयेमिरे। एव। एव। तस्थुः। सवितरिति। सवाय। ते ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 54; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 5; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 5; मन्त्र » 5
Meaning -
Savita, O lord creator, you create the stars and forces great as the sun and cosmic energy, greater than the mighty mountains and the thunderous clouds, and you create the regions and orbits for these wherein they abide like home dwellers. And as these fly around and observe the cosmic law, so they abide for your honour and grandeur doing homage to your glory.