ऋग्वेद - मण्डल 6/ सूक्त 13/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट्। विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यैः॑ ॥४॥
स्वर सहित पद पाठयः । ते॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । य॒ज्ञैः । मर्तः॑ । निऽशि॑तम् । वे॒द्या । आन॑ट् । विश्व॑म् । सः । दे॒व॒ । प्रति॑ । वार॑म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्यम् । पत्य॑ते । व॒स॒व्यैः॑ ॥
स्वर रहित मन्त्र
यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट्। विश्वं स देव प्रति वारमग्ने धत्ते धान्यं१ पत्यते वसव्यैः ॥४॥
स्वर रहित पद पाठयः। ते। सूनो इति। सहसः। गीःऽभिः। उक्थैः। यज्ञैः। मर्तः। निऽशितम्। वेद्या। आनट्। विश्वम्। सः। देव। प्रति। वारम्। अग्ने। धत्ते। धान्यम्। पत्यते। वसव्यैः ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 13; मन्त्र » 4
अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 4
अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 4
Meaning -
Agni, O child of omnipotence and maker of the brave, generous and brilliant ruler of the world, whoever is the mortal who with songs of praise and prayer and noble yajnic deeds receives by the vedi, seat of yajna, his focus and favour for action, he abounds in cherished gifts of life and commands the wealth and power of the world with all treasure sources of prosperity.