Loading...
ऋग्वेद मण्डल - 6 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 3
    ऋषिः - शुनहोत्रः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः। यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥३॥

    स्वर सहित पद पाठ

    न । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः । यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥


    स्वर रहित मन्त्र

    न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः। यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥३॥

    स्वर रहित पद पाठ

    न। यम्। हिंसन्ति। धीतयः। न। वाणीः। इन्द्रम्। नक्षन्ति। इत्। अभि। वर्धयन्तीः। यदि। स्तोतारः। शतम्। यत्। सहस्रम्। गृणन्ति। गिर्वणसम्। शम्। तत्। अस्मै ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 3
    अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 3

    Meaning -
    No thoughts can violate Indra, the ruler, nor hurt him, nor can words comprehend him. In fact, the thoughts and words of devotees exalt and glorify him. And when celebrants offer a hundred and thousand adorations to this lord of exaltation, he is pleased and then peace and bliss of well being descends on the devotee.

    इस भाष्य को एडिट करें
    Top