ऋग्वेद - मण्डल 8/ सूक्त 32/ मन्त्र 3
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्र:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र । कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
स्वर सहित पद पाठनि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥
स्वर रहित मन्त्र
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर । कृषे तदिन्द्र पौंस्यम् ॥
स्वर रहित पद पाठनि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर । कृषे । तत् । इन्द्र । पौंस्यम् ॥ ८.३२.३
ऋग्वेद - मण्डल » 8; सूक्त » 32; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 3
Meaning -
Indra, cosmic power of nature, you break the stronghold of the cloud of showers from the tip of vast heaven and thus accomplish that wondrous feat of divine power.