Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 14
    ऋषिः - प्रजापतिर्ऋषिः देवता - रुद्रो देवता छन्दः - स्वराडर्ष्यनुष्टुप् स्वरः - ऋषभः
    11

    नम॑स्त॒ऽआयु॑धा॒याना॑तताय धृ॒ष्णवे॑। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने॥१४॥

    स्वर सहित पद पाठ

    नमः॑। ते॒। आयु॑धाय। अना॑तताय। धृ॒ष्णवे॑। उ॒भाभ्या॑म्। उ॒त। ते॒। नमः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। तव॑। धन्व॑ने ॥१४ ॥


    स्वर रहित मन्त्र

    नमस्तऽआयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्वने ॥


    स्वर रहित पद पाठ

    नमः। ते। आयुधाय। अनातताय। धृष्णवे। उभाभ्याम्। उत। ते। नमः। बाहुभ्यामिति बाहुऽभ्याम्। तव। धन्वने॥१४॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 14
    Acknowledgment

    अन्वयः - हे सभेश! आयुधायानातताय धृष्णवे ते नमोऽस्तु, उत ते भोक्त्रे तुभ्यं नमः प्रयच्छामि। तवोभाभ्यां बाहुभ्यां धन्वने नमो नियोजयेयम्॥१४॥

    पदार्थः -
    (नमः) (ते) तुभ्यम् (आयुधाय) यः समन्ताद् युध्यते तस्मै। अत्र इगुपधा॰ [अष्टा॰३.१.१३५] इति कः। (अनातताय) अविद्यमान आततो विस्तारो यस्य तस्मै (धृष्णवे) यो धृष्णोति धार्ष्ट्यं प्राप्नेति तस्मै (उभाभ्याम्) (उत) (ते) तुभ्यम् (नमः) (बाहुभ्याम्) बलवीर्य्याभ्याम् (तव) (धन्वने)॥१४॥

    भावार्थः - सेनापत्याद्यधिकारिभिरुभयेभ्योऽध्यक्षयोद्धृभ्यः शस्त्राणि दत्त्वा शत्रुभिः सहैते निःशङ्कं सम्यग् योधनीयाः॥१४॥

    इस भाष्य को एडिट करें
    Top