यजुर्वेद - अध्याय 30/ मन्त्र 5
ऋषिः - नारायण ऋषिः
देवता - परमेश्वरो देवता
छन्दः - स्वराडतिशक्वरी
स्वरः - पञ्चमः
9
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं म॒रुद्भ्यो॒ वैश्यं॒ तप॑से॒ शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हणं॑ पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ऽअयो॒गूं कामा॑य पुँश्च॒लूमति॑क्रुष्टाय माग॒धम्॥५॥
स्वर सहित पद पाठब्रह्म॒णे। ब्रा॒ह्म॒णम्। क्ष॒त्राय॑। रा॒ज॒न्य᳖म्। म॒रुद्भ्य॒ इति॑ म॒रुद्ऽभ्यः॑। वैश्य॑म्। तप॑से। शू॒द्रम्। तम॑से। तस्क॑रम्। ना॒र॒काय॑। वी॒र॒हणाम्। वी॒र॒हन॒मिति॑ वीर॒ऽहन॑म्। पा॒प्मने॑। क्ली॒बम्। आ॒क्र॒याया॒ इत्या॑ऽऽक्र॒यायै॑। अ॒यो॒गूम्। कामा॑य। पुं॒श्च॒लूम्। अति॑क्रुष्टा॒येत्यति॑ऽक्रुष्टाय। मा॒ग॒धम् ॥५ ॥
स्वर रहित मन्त्र
ब्रह्मणे ब्राह्मणङ्क्षत्राय राजन्यम्मरुद्भ्यो वैश्यन्तपसे शूद्रन्तमसे तस्करन्नारकाय वीरहणम्पाप्मने क्लीबमाक्रयायाऽअयोगूङ्कामाय पुँश्चलूमतिक्रुष्टाय मागधम् ॥
स्वर रहित पद पाठ
ब्रह्मणे। ब्राह्मणम्। क्षत्राय। राजन्यम्। मरुद्भ्य इति मरुद्ऽभ्यः। वैश्यम्। तपसे। शूद्रम्। तमसे। तस्करम्। नारकाय। वीरहणाम्। वीरहनमिति वीरऽहनम्। पाप्मने। क्लीबम्। आक्रयाया इत्याऽऽक्रयायै। अयोगूम्। कामाय। पुंश्चलूम्। अतिक्रुष्टायेत्यतिऽक्रुष्टाय। मागधम्॥५॥
विषयः - ईश्वरवद्राज्ञापि कर्त्तव्यमित्याह॥
अन्वयः - हे परमेश्वर राजन्! वा त्वमत्र ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रं सर्वतो जनय, तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबमाक्रयाया अयोगूं कामाय पुंश्चलूमतिक्रुष्टाय मागधञ्च दूरे यमय॥५॥
पदार्थः -
(ब्रह्मणे) वेदेश्वरविज्ञानप्रचाराय (ब्राह्मणम्) वेदेश्वरविदम् (क्षत्राय) राज्याय पालनाय वा (राजन्यम्) राजपुत्रम् (मरुद्भ्यः) पश्वादिभ्यः (वैश्यम्) विक्षु प्रजासु भवम् (तपसे) सन्तापजन्याय सेवनाय (शूद्रम्) प्रीत्या सेवकं शुद्धिकरम् (तमसे) अन्धकाराय प्रवृत्तम् (तस्करम्) चोरम् (नारकाय) नरके दुःखबन्धने भवाय कारागाराय (वीरहणम्) यो वीरान् हन्ति तम् (पाप्मने) पापाचरणाय प्रवृत्तम् (क्लीबम्) नपुंसकम् (आक्रयायै) आक्रमन्ति प्राणिनो यस्यां तस्यै हिंसायै प्रवर्त्तमानम् (अयोगूम्) अयसा शस्त्रविशेषेण सह गन्तारम् (कामाय) विषयसेवनाय प्रवृत्ताम् (पुंश्चलूम्) पुंभिः सह चलितचित्तां व्यभिचारिणीम् (अतिक्रुष्टाय) अत्यन्तनिन्दनाय प्रवर्त्तकम् (मागधम्) नृशंसम्॥५॥
भावार्थः - हे राजन्! यथा जगदीश्वरो जगति परोपकाराय पदार्थान् जनयति, दोषान् निवारयति, तथा त्वमिह राज्ये सज्जनानुत्कर्षय दुष्टान् निःसारय दण्डय ताडय च, यतः शुभगुणानां प्रवृत्तिर्दुर्व्यसनानाञ्च निवृत्तिः स्यात्॥५॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal