यजुर्वेद - अध्याय 30/ मन्त्र 8
न॒दीभ्यः॑ पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषा॑दं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्यं॑ प्र॒युग्भ्य॒ऽ उन्म॑त्तꣳ सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ऽअकि॑तवं पिशा॒चेभ्यो॑ विदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम्॥८॥
स्वर सहित पद पाठन॒दीभ्यः॑। पौ॒ञ्जि॒ष्ठम्। ऋ॒क्षीका॑भ्यः। नैषा॑दम्। नैसा॑द॒मिति॒ नैऽसा॑दम्। पु॒रु॒ष॒व्या॒घ्रायेति॑ पुरुषऽव्या॒घ्राय॑। दु॒र्मद॒मिति॑ दुः॒ऽमद॑म्। ग॒न्ध॒र्वा॒प्स॒रोभ्य॒ इति॒ गन्धर्वाप्स॒रःऽसरःऽभ्यः॑। व्रात्य॑म्। प्र॒युग्भ्य॒ इति॑ प्र॒युक्ऽभ्यः॑। उन्म॑त्त॒मित्युत्ऽम॑त्तम्। स॒र्प॒दे॒व॒ज॒नेभ्य॒ इति॑ सर्पऽदेवज॒नेभ्यः॑। अप्र॑तिपद॒मित्यप्र॑तिऽपदम्। अये॑भ्यः। कि॒त॒वम्। ई॒र्य्यता॑यै। अकि॑तवम्। पि॒शा॒चेभ्यः॑। वि॒द॒ल॒का॒रीमिति॑ विदलऽका॒रीम्। या॒तु॒धाने॑भ्य॒ इति॑ यातु॒ऽधाने॑भ्यः। क॒ण्ट॒की॒का॒रीमिति॑ कण्टकीऽका॒रीम् ॥८ ॥
स्वर रहित मन्त्र
नदीभ्यः पौञ्जिष्ठमृक्षीकाभ्यो नैषादम्पुरुषव्याघ्राय दुर्मदङ्गन्धर्वाप्सरोभ्यो व्रात्यम्प्रयुग्भ्य उन्मत्तँ सर्पदेवजनेभ्यो प्रतिपदमयेभ्यः कितवमीर्यतायाऽअकितवम्पिशाचेभ्यो बिदलकारीँयातुधानेभ्यः कण्टकीकारीम् ॥
स्वर रहित पद पाठ
नदीभ्यः। पौञ्जिष्ठम्। ऋक्षीकाभ्यः। नैषादम्। नैसादमिति नैऽसादम्। पुरुषव्याघ्रायेति पुरुषऽव्याघ्राय। दुर्मदमिति दुःऽमदम्। गन्धर्वाप्सरोभ्य इति गन्धर्वाप्सरःऽसरःऽभ्यः। व्रात्यम्। प्रयुग्भ्य इति प्रयुक्ऽभ्यः। उन्मत्तमित्युत्ऽमत्तम्। सर्पदेवजनेभ्य इति सर्पऽदेवजनेभ्यः। अप्रतिपदमित्यप्रतिऽपदम्। अयेभ्यः। कितवम्। ईर्य्यतायै। अकितवम्। पिशाचेभ्यः। विदलकारीमिति विदलऽकारीम्। यातुधानेभ्य इति यातुऽधानेभ्यः। कण्टकीकारीमिति कण्टकीऽकारीम्॥८॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे जगदीश्वर नृप वा! त्वं नदीभ्यः पौञ्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्रात्यं प्रयुग्भ्य उन्मत्तं सर्पदेवजनेभ्योऽप्रतिपदमयेभ्यः कितवमीर्य्यताया अकितवं पिशाचेभ्यो विदलकारीं यातुधानेभ्यः कण्टकीकारीं परासुव॥८॥
पदार्थः -
(नदीभ्यः) सरिद्विनाशाय प्रवृत्तम् (पौञ्जिष्ठम्) पुक्कसम् (ऋक्षीकाभ्यः) या ऋक्षा गतीः कुर्वन्ति ताभ्यः प्रवृत्तम् (नैषादम्) निषादस्य पुत्रम् (पुरुषव्याघ्राय) व्याघ्र इव पुरुषस्तस्मै हितम् (दुर्मदम्) दुर्गतो दुष्टो मदोऽभिमानं यस्य तम् (गन्धर्वाप्सरोभ्यः) गन्धर्वाश्चाप्सरसश्च ताभ्यः प्रवृत्तम् (व्रात्यम्) असंस्कृतम् (प्रयुग्भ्यः) ये प्रयुञ्जते तेभ्यः प्रवृत्तम् (उन्मत्तम्) उन्मादरोगिणम् (सर्पदेवजनेभ्यः) सर्पाश्च देवजनाश्च तेभ्यो (अप्रतिपदम्) अनिश्चितबुद्धिम् (अयेभ्यः) य अय्यन्ते प्राप्यन्ते पदार्थास्तेभ्यः प्रवृत्तम् (कितवम्) द्यूतकारिणम् (ईर्य्यतायै) कम्पनाय प्रवृत्तम् (अकितवम्) अद्यूतकारिणम् (पिशाचेभ्यः) पिशिता नष्टाऽऽशा येषां ते पिशाचाः अथवा पिशितमवयवीभूतं सरक्तं वा मांसमाचामन्ति भक्षयन्तीति पिशाचाः। उभयथा पृषोदरादित्वात् [अ॰६.३.१०९] सिद्धिः। (विदलकारीम्) या विगतान् दलान् करोति ताम् (यातुधानेभ्यः) यान्ति येषु ते यातवो मार्गास्तेभ्यो धनं येषान्तेभ्यः प्रवृत्तम् (कण्टकीकारीम्) या कण्टकीं करोति ताम्॥८॥
भावार्थः - हे राजन्! यथा परमेश्वरो दुष्टेभ्यो महात्मनो दूरे वासयति, दुष्टाः परमेश्वराद् दूरे वसन्ति, तथा त्वं दुष्टेभ्यो दूरे वस, दुष्टांश्च स्वतो दूरे वासय, सुशिक्षया साधून् सम्पादय वा॥८॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal