Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 17
    ऋषिः - नोधा ऋषिः देवता - इन्द्रो देवता छन्दः - निचृत् त्रिष्टुप् स्वरः - धैवतः
    6

    प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यꣳ शवसा॒नाय॒ साम॑।येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाऽअर्च॑न्तो॒ऽअङ्गिरसो॒ गाऽअवि॑न्दन्॥१७॥

    स्वर सहित पद पाठ

    प्र। वः॒। म॒हे। महि॑। नमः॑। भ॒र॒ध्व॒म्। आ॒ङ्गू॒ष्य᳖म्। श॒व॒सा॒नाय॑। साम॑ ॥ येन॑। नः॒। पूर्वे॑। पि॒तरः॑। प॒द॒ज्ञा इति॑ पद॒ऽज्ञाः। अर्च॑न्तः। अङ्गि॑रसः। गाः। अवि॑न्दन् ॥१७ ॥


    स्वर रहित मन्त्र

    प्र वो महे महि नमो भरध्वमाङ्गूष्यँ शवसानाय साम । येना नः पूर्वे पितरः पदज्ञाऽअर्चन्तो अङ्गिरसो गाऽअविन्दन् ॥


    स्वर रहित पद पाठ

    प्र। वः। महे। महि। नमः। भरध्वम्। आङ्गूष्यम्। शवसानाय। साम॥ येन। नः। पूर्वे। पितरः। पदज्ञा इति पदऽज्ञाः। अर्चन्तः। अङ्गिरसः। गाः। अविन्दन्॥१७॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 17
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा पदज्ञा नोऽस्मानर्चन्तोऽङ्गिरस पूर्वे नः पितरो येन महे शवसानाय वश्चाऽऽङ्गूष्यं साम गाश्चाविन्दन् तेन तेभ्यो यूयं महि नमः प्रभरध्वम्॥१७॥

    पदार्थः -
    (प्र) (वः) युष्मभ्यम् (महे) महते (महि) महत्सकारार्थम् (नमः) सत्कर्मान्नं वा (भरध्वम्) धरत (आङ्गूष्यम्) आङ्गूषाय सत्काराय बलाय वा हितम् (शवसानाय) ब्रह्मचर्य्यसुशिक्षाभ्यां शरीरात्मबलयुक्ताय (साम) सामवेदम् (येन) अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (नः) अस्माकमस्मान् वा (पूर्वे) पूर्वजाः (पितरः) पालका ज्ञानिनः (पदज्ञाः) ये पदं ज्ञातव्यं प्रापणीयमात्मस्वरूपं जानन्ति ते (अर्चन्तः) सत्क्रियां कुर्वन्तः (अङ्गिरसः) सर्वस्याः सृष्टेर्विद्याङ्गविदः (गाः) सुशिक्षिता वाचः (अविन्दन्) लम्भयेरन्॥१७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! ये विद्वांसो युष्मान् विद्यासुशिक्षाभ्यां विपश्चितो धार्मिकान् कुर्युस्तानेव पूर्वाऽधीतविद्यान् पितॄन् विजानीत॥१७॥

    इस भाष्य को एडिट करें
    Top