Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 26
    ऋषिः - आङ्गिरसो हिरण्यस्तूप ऋषिः देवता - सविता देवता छन्दः - विराट् त्रिष्टुप् स्वरः - धैवतः
    10

    हिर॑ण्यहस्तो॒ऽअसु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ्।अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः॥२६॥

    स्वर सहित पद पाठ

    हिर॑ण्यहस्त॒ इति॒ हिर॑ण्यऽहस्तः। असु॑रः। सु॒नी॒थ इति॑ सुऽनी॒थः। सु॒मृ॒डी॒क इति॑ सुमृडी॒कः। स्ववा॒निति॒ स्वऽवा॑न्। या॒तु॒। अ॒र्वाङ् ॥ अ॒प॒सेध॒न्नित्य॑प॒ऽसेध॑न्। र॒क्षसः॑। या॒तु॒धाना॒निति॑ यातु॒ऽधाना॑न्। अस्था॑त्। दे॒वः। प्र॒ति॒दो॒षमिति॑ प्रतिऽदो॒षम्। गृ॒णा॒नः ॥२६ ॥


    स्वर रहित मन्त्र

    हिरण्यहस्तोऽअसुरः सुनीथः सुमृडीकः स्ववा यात्वर्वाङ् । अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषङ्गृणानः ॥


    स्वर रहित पद पाठ

    हिरण्यहस्त इति हिरण्यऽहस्तः। असुरः। सुनीथ इति सुऽनीथः। सुमृडीक इति सुमृडीकः। स्ववानिति स्वऽवान्। यातु। अर्वाङ्॥ अपसेधन्नित्यपऽसेधन्। रक्षसः। यातुधानानिति यातुऽधानान्। अस्थात्। देवः। प्रतिदोषमिति प्रतिऽदोषम्। गृणानः॥२६॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 26
    Acknowledgment

    अन्वयः - हे मनुष्याः! यो हिरण्यहस्तः सुनीथोऽसुरः सुमृडीकः स्ववान् देवो रक्षसो यातुधानानपसेधन् प्रतिदोषं गृणानश्चास्थात्, सोऽर्वाङस्मत् सुखाय यातु, तद्वद्यूयं भवत॥२६॥

    पदार्थः -
    (हिरण्यहस्तः) हिरण्यानि ज्योतींषि हस्तवद् यस्य सः (असुरः) प्रक्षेप्ता (सुनीथः) यः सुष्ठु नयति सः (सुमृडीकः) सुष्ठु सुखकरः (स्ववान्) स्वे स्वकीयाः प्रकाशादयो गुणा विद्यन्ते यस्मिन् सः। अत्र दीर्घादटि समानपादे॥ (अष्टा॰८।३।९) रुत्वे भोभगो॰ [अ॰८.३.१७] इत्यनेन रोर्यादेशे च हलि सर्वेषाम् [अ॰८.३.२२] इति लोपः। (यातु) प्राप्नोतु (अर्वाङ्) योऽर्वाचीनान् अञ्चति प्राप्नोति सः (अपसेधन्) दूरीकुर्वन् (रक्षसः) दस्युचोरादीन् (यातुधानान्) अन्यायेन परपदार्थधारकान् (अस्थात्) उत्तिष्ठति उदेति (देवः) प्रकाशकः (प्रतिदोषम्) प्रतिजनं यो दोषस्तम्। अत्रोत्तरपदलोपः। (गृणानः) उच्चरयन् प्रकटयन्॥२६॥

    भावार्थः - हे मनुष्याः! सदैवौदार्येण याचमानेभ्यो हिरण्यादिकं दत्त्वा दुष्टाचारान् तिरस्कृत्य धार्मिकेभ्यः सुखं प्रदायाऽहर्निशं सूर्यवत् प्रशंसिता भवत॥२६॥

    इस भाष्य को एडिट करें
    Top