Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 35/ मन्त्र 2
    ऋषिः - आदित्या देवा ऋषयः देवता - सविता देवता छन्दः - गायत्री स्वरः - षड्जः
    6

    स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्यां लो॒कमि॑च्छतु।तस्मै॑ युज्यन्तामु॒स्रियाः॑॥२॥

    स्वर सहित पद पाठ

    स॒वि॒ता। ते॒ शरी॑रेभ्यः। पृ॒थि॒व्याम्। लो॒कम्। इ॒च्छ॒तु॒ ॥ तस्मै॑। यु॒ज्य॒न्ता॒म्। उ॒स्रियाः॑ ॥२ ॥


    स्वर रहित मन्त्र

    सविता ते शरीरेभ्यः पृथिव्याँल्लोकमिच्छतु । तस्मै युज्यन्तामुस्रियाः ॥


    स्वर रहित पद पाठ

    सविता। ते शरीरेभ्यः। पृथिव्याम्। लोकम्। इच्छतु॥ तस्मै। युज्यन्ताम्। उस्रियाः॥२॥

    यजुर्वेद - अध्याय » 35; मन्त्र » 2
    Acknowledgment

    अन्वयः - हे जीव! सविता यस्य ते शरीरेभ्यः पृथिव्यां लोकमिच्छतु, तस्मै तुभ्यमुस्रिया युज्यन्ताम्॥२॥

    पदार्थः -
    (सविता) परमात्मा (ते) तव (शरीरेभ्यः) देहेभ्यः (पृथिव्याम्) अन्तरिक्षे भूमौ वा (लोकम्) कर्मानुकूलं सुखदुःखप्रापकम् (इच्छतु) (तस्मै) (युज्यन्ताम्) (उस्रियाः) किरणाः। उस्रा इति रश्मिनामसु पठितम्॥ (निघं॰१। ५)॥२॥

    भावार्थः - हे जीवा! यो जगदीश्वरो युष्मभ्यं सुखमिच्छति, किरणद्वारा लोकलोकान्तरं प्रापयति, स एव युष्माभिर्न्यायकारी मन्तव्यः॥२॥

    इस भाष्य को एडिट करें
    Top