Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 35/ मन्त्र 8
    ऋषिः - आदित्या देवा ऋषयः देवता - विश्वेदेवा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    8

    शं वातः॒ शꣳ हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः।शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒भि शू॑शुचन्॥८॥

    स्वर सहित पद पाठ

    शम्। वातः॑। शम्। हि। ते॒। घृणिः॑। शम्। ते॒। भ॒व॒न्तु॒। इष्ट॑काः ॥ शम्। ते॒। भ॒व॒न्तु॒। अ॒ग्नयः॑। पार्थि॑वासः। मा। त्वा॒। अ॒भि। शू॒शु॒च॒न् ॥८ ॥


    स्वर रहित मन्त्र

    शं वातः शँ हि ते घृणिः शन्ते भवन्त्विष्टकाः । शन्ते भवन्त्वग्नयः पार्थिवासो मा त्वाभिशूशुचन् ॥


    स्वर रहित पद पाठ

    शम्। वातः। शम्। हि। ते। घृणिः। शम्। ते। भवन्तु। इष्टकाः॥ शम्। ते। भवन्तु। अग्नयः। पार्थिवासः। मा। त्वा। अभि। शूशुचन्॥८॥

    यजुर्वेद - अध्याय » 35; मन्त्र » 8
    Acknowledgment

    अन्वयः - हे जीव! ते वातः शं भवतु, घृणिः शं हि भवतु, इष्टकास्ते शं भवन्तु, पार्थिवासोऽग्नयस्ते शं भवन्त्वेते त्वा माभि शूशुचन्॥८॥

    पदार्थः -
    (शम्) सुखकरः (वातः) वायुः (शम्) (हि) यतः (ते) (घृणिः) रश्मिवान् सूर्य्यः (शम्) (ते) (भवन्तु) (इष्टकाः) वेद्यां चिताः (शम्) (ते) (भवन्तु) (अग्नयः) पावकाः (पार्थिवासः) विदिताः (मा) (त्वा) (अभि) (शूशुचन्) भृशं शोकं कुर्य्युः॥८॥

    भावार्थः - हे जीवास्तथैव युष्माभिर्धर्म्ये व्यवहारे वर्त्तितव्यं यथा जीवतां मृतानां च युष्माकं सृष्टिस्था वाय्वादयः पदार्थाः सुखकराः स्युः॥८॥

    इस भाष्य को एडिट करें
    Top