Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 36/ मन्त्र 5
    ऋषिः - वामदेव ऋषिः देवता - इन्द्रो देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    13

    कस्त्वा॑ स॒त्यो मदा॑नां॒ मꣳहि॑ष्ठो मत्स॒दन्ध॑सः।दृ॒ढा चि॑दा॒रुजे॒ वसु॑॥५॥

    स्वर सहित पद पाठ

    कः। त्वा॒। स॒त्यः। मदा॑नाम्। मꣳहि॑ष्ठः। म॒त्स॒त्। अन्धसः॑ ॥ दृ॒ढा। चि॒त्। आ॒रुज॒ऽइत्या॒रुजे॑। वसु॑ ॥५ ॥


    स्वर रहित मन्त्र

    कस्त्वा सत्यो मदानाममँहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥


    स्वर रहित पद पाठ

    कः। त्वा। सत्यः। मदानाम्। मꣳहिष्ठः। मत्सत्। अन्धसः॥ दृढा। चित्। आरुजऽइत्यारुजे। वसु॥५॥

    यजुर्वेद - अध्याय » 36; मन्त्र » 5
    Acknowledgment

    अन्वयः - हे मनुष्याः! मदानां मंहिष्ठः कः सत्यः प्रजापतिरन्धसस्त्वा मत्सदारुजे तुभ्यं चित् दृढा वसु प्रयच्छति॥५॥

    पदार्थः -
    (कः) सुखस्वरूपः (त्वा) त्वाम् (सत्यः) सत्सु पदार्थेषु साधुरीश्वरः (मदानाम्) आनन्दानां मध्ये (मंहिष्ठः) अतिशयेन मंहिता वृद्धः (मत्सत्) आनन्दयति (अन्धसः) अन्नादेः सकाशात् (दृढा) दृढानि (चित्) अपि (आरुजे) दुःखभञ्जकाय जीवाय (वसु) वसूनि धनानि। अत्र सुपां सुलुग्॰ [अ॰७.१.३९] इति जसो लुक्॥५॥

    भावार्थः - हे मनुष्याः! योऽन्नादिना सत्यविज्ञापनेन च धनानि प्रदाय सर्वानानन्दयति, तं सुखस्वरूपं परमात्मानमेव यूयं नित्यमुपाध्वम्॥५॥

    इस भाष्य को एडिट करें
    Top