Loading...
यजुर्वेद अध्याय - 39

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 39/ मन्त्र 5
    ऋषिः - दीर्घतमा ऋषिः देवता - प्रजापतिर्देवता छन्दः - कृतिः स्वरः - निषादः
    6

    प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः स॒म्राट् सम्भृ॑तो वैश्वदे॒वः स॑ꣳस॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ऽउद्य॑तऽआश्वि॒नः पय॑स्यानी॒यमा॑ने पौ॒ष्णो वि॑ष्य॒न्दमा॑ने मारु॒तः क्लथ॑न्। मै॒त्रः शर॑सि सन्ता॒य्यमा॑ने वाय॒व्यो ह्रि॒यमा॑णऽआग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः॥५॥

    स्वर सहित पद पाठ

    प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। स॒म्भ्रि॒यमा॑ण॒ इति॑ सम्ऽभ्रि॒यमा॑णः। स॒म्राडिति॑ स॒म्ऽराट्। सम्भृ॑त॒ इति॒ सम्ऽभृ॑तः। वैश्व॒दे॒व इति॑ वैश्वऽदे॒वः। स॒ꣳस॒न्न इति॑ सम्ऽस॒न्नः। घ॒र्मः। प्रवृ॑क्त॒ इति प्रऽवृ॑क्तः। तेजः॑। उद्य॑त॒ इत्युत्ऽय॑तः। आ॒श्वि॒नः। प॑यसि। आ॒नी॒यमा॑न॒ इत्या॑ऽनी॒यमा॑ने। पौ॒ष्णः। वि॒ष्य॒न्दमा॑ने। वि॒स्य॒न्दमा॑न॒ इति॑ विऽस्य॒न्दमा॑ने। मा॒रु॒तः। क्लथ॑न् ॥ मै॒त्रः। शर॑सि। स॒न्ता॒य्यमा॑न॒ इति॑ सम्ऽता॒य्यमा॑ने। वा॒य॒व्यः᳖। ह्रि॒यमा॑णः। आ॒ग्ने॒यः। हू॒यमा॑नः। वाक्। हु॒तः ॥५ ॥


    स्वर रहित मन्त्र

    प्रजापतिः सम्भ्रियमाणः सम्राट्सम्भृतो वैश्वदेवः सँसन्नो घर्मः प्रवृक्तस्तेजऽउद्यतऽआश्विनः पयस्यानीयमाने पौष्णो विष्पन्दमाने मारुतः क्लथन् । मैत्रः शरसि संताय्यमाने वायव्यो हि््रयमाण आग्नेयो हूयमानो वाग्घुतः ॥


    स्वर रहित पद पाठ

    प्रजापतिरिति प्रजाऽपतिः। सम्भ्रियमाण इति सम्ऽभ्रियमाणः। सम्राडिति सम्ऽराट्। सम्भृत इति सम्ऽभृतः। वैश्वदेव इति वैश्वऽदेवः। सꣳसन्न इति सम्ऽसन्नः। घर्मः। प्रवृक्त इति प्रऽवृक्तः। तेजः। उद्यत इत्युत्ऽयतः। आश्विनः। पयसि। आनीयमान इत्याऽनीयमाने। पौष्णः। विष्यन्दमाने। विस्यन्दमान इति विऽस्यन्दमाने। मारुतः। क्लथन्॥ मैत्रः। शरसि। सन्ताय्यमान इति सम्ऽताय्यमाने। वायव्यः। ह्रियमाणः। आग्नेयः। हूयमानः। वाक्। हुतः॥५॥

    यजुर्वेद - अध्याय » 39; मन्त्र » 5
    Acknowledgment

    अन्वयः - हे मनुष्याः! येनेश्वरेण सम्भ्रियमाणः सम्राड् वैश्वदेवः संसन्नो घर्मस्तेजः प्रवृक्त उद्यत आश्विना आनीयमाने पयसि पौष्णो विस्यन्दमाने मारुतः क्लथन् मैत्रः सन्ताय्यमाने शरसि वायव्यो ह्रियमाण आग्नेयो हूयमानो वाग्घुतः प्रजापतिः सम्भृतोऽस्ति, तमेव परमात्मानं यूयमुपाध्वम्॥५॥

    पदार्थः -
    (प्रजापतिः) प्रजायाः पालको जीवः (सम्भ्रियमाणः) सम्यक् पोष्यमाणो भ्रियमाणो वा (सम्राट्) यः सम्यग्राजते सः (संभृतः) सम्यक् पोषितो धृतो वा (वैश्वदेवः) विश्वेषां देवानां दिव्यानां जीवानां पदार्थानां वा यः सम्बन्धी (संसन्नः) सम्यक् गच्छन् (घर्मः) (प्रवृक्तः) शरीरात् पृथक् भूतः (तेजः) (उद्यतः) ऊर्ध्वं गच्छन् (आश्विनः) आश्विनोः प्राणापानगत्योरयं सम्बन्धी (पयसि) उदके (आनीयमाने) समन्तात् प्राप्ते (पोष्णः) पूष्णः पृथिव्या अयं सम्बन्धी (विस्यन्दमाने) विशेषेण गम्यमाने (मारुतः) मनुष्यदेहानामयम् (क्लथन्) हिंसां कुर्वन् (मैत्रः) मित्रास्यायं सम्बन्धी (शरसि) तडागे (सन्ताय्यमाने) विस्तार्यमाणे पाल्यमाने वा (वायव्यः) वायौ भवः (ह्रियमाणः) यो ह्रियते सः (आग्नेयः) अग्निदेवताकः (हूयमानः) शब्द्यमानः (वाक्) यो वदति सः (हुतः) शब्दितः॥५॥

    भावार्थः - यदायं जीवो देहं त्यक्त्वा सर्वेषु पृथिव्यादिपदार्थेषु भ्रमन् यत्र कुत्र प्रविशन् यतस्ततो गच्छन् कर्मानुसारेणेश्वरव्यवस्थया जन्म प्राप्नोति, तदैव सुप्रसिद्धो भवति॥५॥

    इस भाष्य को एडिट करें
    Top