Loading...
यजुर्वेद अध्याय - 39

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 39/ मन्त्र 4
    ऋषिः - दीर्घतमा ऋषिः देवता - श्रीर्देवता छन्दः - निचृद्बृहती स्वरः - मध्यमः
    7

    मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय।प॒शू॒ना रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑॥४॥

    स्वर सहित पद पाठ

    मन॑सः। काम॑म्। आकू॑ति॒मित्याऽकू॑तिम्। वाचः। स॒त्यम्। अ॒शी॒य॒ ॥ प॒शू॒नाम्। रू॒पम्। अन्न॑स्य। रसः॑। यशः॑। श्रीः। श्र॒य॒ता॒म्। मयि॑। स्वाहा॑ ॥४ ॥


    स्वर रहित मन्त्र

    मनसः काममाकूतिञ्वाचः सत्यमशीय । पशूनाँ रूपमन्नस्य रसो यशः श्रीः श्रयताम्मयि स्वाहा ॥


    स्वर रहित पद पाठ

    मनसः। कामम्। आकूतिमित्याऽकूतिम्। वाचः। सत्यम्। अशीय॥ पशूनाम्। रूपम्। अन्नस्य। रसः। यशः। श्रीः। श्रयताम्। मयि। स्वाहा॥४॥

    यजुर्वेद - अध्याय » 39; मन्त्र » 4
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथाहं स्वाहैवं पूर्वपरोक्तप्रकारेण मृतानि शरीराणि दग्ध्वा मनसो वाचश्च सत्यं काममाकूतिं पशूनां रूपमशीय। यथा मय्यन्नस्य रसो यशः श्रीः श्रयतां तथैवं कृत्वा यूयमेनं प्राप्नुत, एता युष्मासु श्रयन्ताम्॥४॥

    पदार्थः -
    (मनसः) अन्तःकरणस्य (कामम्) इच्छापूर्तिम् (आकूतिम्) उत्साहम् (वाचः) वाण्याः (सत्यम्) सत्सु साधु वचः (अशीय) प्राप्नुयाम् (पशूनाम्) गवादीनाम् (रूपम्) सुन्दरं स्वरूपम् (अन्नस्य) अत्तुमर्हस्यौदनादेः (रसः) मधुरादिः (यशः) कीर्तिः (श्रीः) शोभनैश्वर्यं च (श्रयताम्) सेवताम् (मयि) जीवात्मनि (स्वाहा) सत्यया क्रियया॥४॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सुविज्ञानोत्साहसत्यवचनैर्मृतानि शरीराणि विधिना दाहयन्ति, ते पशून् प्रजाधनधान्यादीनि पुरुषार्थेन लभन्ते॥४॥

    इस भाष्य को एडिट करें
    Top