यजुर्वेद - अध्याय 4/ मन्त्र 15
ऋषिः - आङ्गिरस ऋषयः
देवता - अग्निर्देवता
छन्दः - ब्राह्मी बृहती,
स्वरः - मध्यमः
4
पुन॒र्मनः॒ पुन॒रायु॑र्म॒ऽआग॒न् पुनः॑ प्रा॒णः पुन॑रा॒त्मा मऽआग॒न् पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ऽआग॑न्। वै॒श्वा॒न॒रोऽद॑ब्धस्तनू॒पाऽअ॒ग्निर्नः॑ पातु दुरि॒ताद॑व॒द्यात्॥१५॥
स्वर सहित पद पाठपुनः॑। मनः॑। पुनः॑। आयुः॑। मे॒। आ। अ॒ग॒न्। पुन॒रिति॒ पुनः॑। प्रा॒णः। पुनः॑। आ॒त्मा। मे॒। आ। अ॒ग॒न्। पुन॒रिति॒ पुनः॑। चक्षुः॑। पुन॒रिति॒ पुनः॑। श्रोत्र॑म्। मे॒। आ। अ॒ग॒न्। वै॒श्वा॒न॒रः। अद॑ब्धः। त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्निः। नः॒ पा॒तु॒। दु॒रि॒तादिति॑ दुःइ॒तात्। अ॒व॒द्यात् ॥१५॥
स्वर रहित मन्त्र
पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रम्म आगन् । वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यात् ॥
स्वर रहित पद पाठ
पुनः। मनः। पुनः। आयुः। मे। आ। अगन्। पुनरिति पुनः। प्राणः। पुनः। आत्मा। मे। आ। अगन्। पुनरिति पुनः। चक्षुः। पुनरिति पुनः। श्रोत्रम्। मे। आ। अगन्। वैश्वानरः। अदब्धः। तनूपा इति तनूऽपाः। अग्निः। नः पातु। दुरितादिति दुःइतात्। अवद्यात्॥१५॥
विषयः - जीवा अग्निवाय्वादिनिमित्तेन जागरणे पुनर्जन्मनि वा प्रसिद्धानि मनआदीनीन्द्रियाणि प्राप्नुवन्तीत्युपदिश्यते॥
अन्वयः - यस्य सम्बन्धेन कृपया वा मे मह्यं जागरणे पुनर्जन्मनि वा मन आयुः पुनरागन्, मे मम प्राणः पुनरागन्, आत्मा पुनरागन्, मे मह्यं चक्षुः पुनरागन्, श्रोत्रं पुनरागन्। सोऽदब्धस्तनूपा वैश्वानरोऽग्निर्नोऽस्मानवद्याद् दुरितात् पातु पालयति पालयतु वा॥१५॥
पदार्थः -
(पुनः) शयनानन्तरं जागरणे, द्वितीये जन्मनि वा (मनः) विज्ञानसाधकम् (पुनः) पश्चाज्जन्मानन्तरम् (आयुः) येन जीवनम् (मे) मह्यम् (आ) समन्तात् (अगन्) प्राप्नोति। अत्र सर्वत्र लडर्थे लुङ्। मन्त्रे घस॰। [अष्टा॰२.४.८०] इति च्लेर्लुक्। मो नो धातोः। [अष्टा॰८.२.६४] इति मकारस्य नकारः (पुनः) वारंवारम् (प्राणः) शरीराधारकः (पुनः) पश्चात् मनुष्यदेहधारणानन्तरम् (आत्मा) अतति सर्वत्र व्याप्नोतीति सर्वान्तर्य्यामी परमात्मा, स्वस्वभावो वा (मे) मह्यम् (आ) अभितः (अगन्) प्राप्नोति (पुनः) पश्चात् (चक्षुः) चष्टे येन तद्रूपग्राहकमिन्द्रियम् (पुनः) अग्रे (श्रोत्रम्) शृणोति शब्दान् येन तच्छब्दग्राहकमिन्द्रियम् (मे) मह्यम् (आ) आभिमुख्ये (अगन्) प्राप्नोति (वैश्वानरः) शरीरनेता जाठराग्निः, सर्वस्य नेता परमेश्वरो वा (अदब्धः) हिंसितुमनर्हः (तनूपाः) यः शरीरमात्मानं च रक्षति (अग्निः) अन्तःस्थो विज्ञानस्वरूपो वा (नः) अस्मान् (पातु) पालयति पालयतु वा (दुरितात्) पापजन्यात् प्राप्तव्याद् दुःखाद् दुष्टकर्मणो वा (अवद्यात्) पापाचरणात्। अयं मन्त्रः (शत॰३.२.२.२३) व्याख्यातः॥१५॥
भावार्थः - अत्र श्लेषालङ्कारः। यदा जीवाः शयनं मरणं च प्राप्नुवन्ति, तदा यानि कार्य्यसिद्धिसाधनानि मन आदीनीन्द्रियाणि प्रलीनानीव भूत्वा पुनः पुनर्जागरणे जन्मान्तरे वा प्राप्नुवन्ति, तानि यस्य विद्युदग्न्यादेः सम्बन्धेन परमेश्वरस्य सत्ता व्यवस्थाभ्यां वा सगोलकानि भूत्वा कार्य्यकरणसमर्थानि भवन्ति, स सम्यक् सेवितो जाठराग्निः सर्वं रक्षत्युपासितो जगदीश्वरः पापकर्मणः सकाशान्निवर्त्त्य धर्मे प्रवर्त्य पुनः पुनर्मनुष्यजन्मानि प्रापय्य दुष्टाचाराद् दुःखेभ्यश्च पृथक्कृत्वाऽऽभ्युदयिकं नैःश्रेयसिकं च सुखं प्रापयति॥१५॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal