Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 37
    ऋषिः - देवावत ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् अनुष्टुप्, स्वरः - गान्धारः
    6

    अग्ने॒ सह॑स्व॒ पृ॑तनाऽअ॒भिमा॑ती॒रपा॑स्य। दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि॥३७॥

    स्वर सहित पद पाठ

    अग्ने॑। सह॑स्व। पृत॑नाः। अ॒भिमा॑ती॒रित्य॒भिऽमा॑तीः। अप॑। अ॒स्य॒। दु॒ष्टरः॑। दु॒ष्तर॒ इति॑ दुः॒ऽतरः॑। तर॒न्। अरा॑तीः। वर्चः॑। धाः॒। य॒ज्ञवा॑ह॒सीति॑ य॒ज्ञऽवा॑हसि ॥३७॥


    स्वर रहित मन्त्र

    अग्ने सहस्व पृतनाऽअभिमातीरपास्य । दुस्टरस्तरन्नरातीर्वर्चाधा यज्ञवाहसि ॥


    स्वर रहित पद पाठ

    अग्ने। सहस्व। पृतनाः। अभिमातीरित्यभिऽमातीः। अप। अस्य। दुष्टरः। दुष्तर इति दुःऽतरः। तरन्। अरातीः। वर्चः। धाः। यज्ञवाहसीति यज्ञऽवाहसि॥३७॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 37
    Acknowledgment

    अन्वयः - हे अग्ने! दुष्टरस्तरँस्त्वं यज्ञवाहस्यभिमातीः पृतनाः सहस्वारातीरपास्य वर्चो धाः॥३७॥

    पदार्थः -
    (अग्ने) सकलविद्याविद् विद्वन् राजन्! (सहस्व) क्षमस्व (पृतनाः) बलसुशिक्षान्विता वीरमनुष्यसेनाः (अभिमातीः) अभिमानहर्षयुक्ताः (अप) दूरे (अस्य) प्रक्षिप (दुष्टरः) दुःखेन तरितुं संप्लवितुं योग्यः (तरन्) शत्रुबलं संप्लवन् (अरातीः) अदानशीलान् शत्रून् (वर्चः) विद्याबलन्यायदीपनम् (धाः) धेहि (यज्ञवाहसि) यज्ञान् सङ्गतान् राजधर्मादीन् वहन्ति यस्मिन् राज्ये तस्मिन्। अयं मन्त्रः (शत॰५। २। ४। १६) व्याख्यातः॥३७॥

    भावार्थः - राजादयः सभासेनादयः स्वकीयेन दृढेन विद्यासुशिक्षायुक्तेन धृतेन सैन्येन सहिताः स्वयमजयाः सन्तः शत्रून् विजयमानाः पृथिव्यां कीर्तिं प्रसारयेयुः॥३७॥

    इस भाष्य को एडिट करें
    Top