Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 39
    ऋषिः - देवावत ऋषिः देवता - रक्षोघ्नो देवता छन्दः - अतिजगती स्वरः - निषादः
    6

    स॒वि॒ता त्वा॑ स॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ सोमो॒ वन॒स्पती॑नाम्। बृह॒स्पति॑र्वा॒चऽइन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मित्रः॒ स॒त्यो वरु॑णो॒ धर्म॑पतीनाम्॥३९॥

    स्वर सहित पद पाठ

    स॒वि॒ता। त्वा॒। स॒वाना॑म्। सु॒व॒ता॒म्। अ॒ग्निः। गृ॒ह॑पतीना॒मिति॑ गृ॒हऽप॑तीनाम्। सोमः॑। वन॒स्पती॑नाम्। बृह॒स्पतिः॑। वा॒चे। इन्द्रः॑। ज्यैष्ठ्या॑य। रु॒द्रः। प॒शुभ्य॒ इति॑ पशुऽभ्यः॑। मि॒त्रः॒। स॒त्यः। वरु॑णः। धर्म॑पतीना॒मिति॒ धर्म॑ऽपतीनाम् ॥३९॥


    स्वर रहित मन्त्र

    सविता त्वा सवानाँ सुवतामग्निर्गृहपतीनाँ सोमो वनस्पतीनाम् । बृहस्पतिर्वाच ऽइन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥


    स्वर रहित पद पाठ

    सविता। त्वा। सवानाम्। सुवताम्। अग्निः। गृहपतीनामिति गृहऽपतीनाम्। सोमः। वनस्पतीनाम्। बृहस्पतिः। वाचे। इन्द्रः। ज्यैष्ठ्याय। रुद्रः। पशुभ्य इति पशुऽभ्यः। मित्रः। सत्यः। वरुणः। धर्मपतीनामिति धर्मऽपतीनाम्॥३९॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 39
    Acknowledgment

    अन्वयः - हे सभेश राजन्! यस्त्वं सवानां सवितेव गृहपतीनामग्निरिव वनस्पतीनां सोम इव धर्मपतीनां सत्यो वरुणो मित्र इव वाचे बृहस्पतिरिव ज्यैष्ठ्यायेन्द्र इव पशुभ्यो रुद्र इवासि, तं त्वाप्त उपदेष्टा प्रजापालने सुवताम्॥३९॥

    पदार्थः -
    (सविता) ऐश्वर्य्यस्य प्रसविता (त्वा) त्वाम् (सवानाम्) ऐश्वर्य्यणाम् (सुवताम्) प्रेर्ताम्, अत्र व्यत्ययेनात्मनेपदम् (अग्निः) प्रकाशयुक्तः (गृहपतीनाम्) गृहाऽऽश्रमपालकानाम् (सोमः) सोम्यगुणसम्पन्नो वैद्यकविषय ओषधीराजः (वनस्पतीनाम्) पिप्पल्यादीनाम् (बृहस्पतिः) पूर्णविद्य आप्तः (वाचे) वेदाऽर्थसुशिक्षायुक्तवाणीविज्ञानाय (इन्द्रः) परमैश्वर्य्ययोगारूढो वृद्धः (ज्यैष्ठ्याय) अतिशयेन वृद्धस्य भावाय (रुद्रः) शत्रूणां रोदयिता शूरवीरः (पशुभ्यः) गवादीनाम् (मित्रः) सर्वस्य सुहृत् (सत्यः) सत्पुरुषेषु भवः (वरुणः) धर्म्माऽऽचरणेन श्रेष्ठः (धर्म्मपतीनाम्) धर्म्मस्य रक्षितॄणाम्। अयं मन्त्रः (शत॰५। ३। ३। १०) व्याख्यातः॥३९॥

    भावार्थः - हे राजँस्त्वं ये त्वामधर्मान्निवर्त्त्य धर्मानुष्ठाने प्रेरयुयुस्तेषामेव सङ्गं सदा कुरु नेतरेषाम्॥३९॥

    इस भाष्य को एडिट करें
    Top