Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1004
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
5
य꣢दु꣣दी꣡र꣢त आ꣣ज꣡यो꣢ धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥१००४॥
स्वर सहित पद पाठयत् । उ꣣दी꣡र꣢ते । उ꣣त् । ई꣡रते꣢꣯ । आ꣣ज꣡यः꣢ । धृ꣣ष्ण꣡वे꣢ । धी꣣यते । ध꣡न꣢꣯म् । यु꣣ङ्क्ष्व꣢ । म꣣दच्यु꣡ता꣢ । म꣣द । च्यु꣡ता꣢꣯ । हरी꣢꣯इ꣡ति꣢ । कम् । ह꣡नः꣢꣯ । कम् । व꣡सौ꣢꣯ । द꣣धः । अस्मा꣢न् । इ꣣न्द्र । व꣡सौ꣢꣯ । द꣣धः ॥१००४॥
स्वर रहित मन्त्र
यदुदीरत आजयो धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥१००४॥
स्वर रहित पद पाठ
यत् । उदीरते । उत् । ईरते । आजयः । धृष्णवे । धीयते । धनम् । युङ्क्ष्व । मदच्युता । मद । च्युता । हरीइति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥१००४॥
सामवेद - मन्त्र संख्या : 1004
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - तृतीया ऋक् पूर्वार्चिके ४१४ क्रमाङ्के जीवात्मनृपतिसेनापतिविषये व्याख्याता। अत्र प्रसङ्गागतो मनोविषय एवोच्यते।
पदार्थः -
(यत्) यदा (आजयः) आन्तरा बाह्या वा देवासुरसंग्रामाः (उदीरते) उद्गच्छन्ति, तदा (धृष्णवे) शत्रुधर्षणशीलाय एव जनाय (धनम्) ऐश्वर्यम् (धीयते) स्थाप्यते। हे (इन्द्र) विघ्नविदारक वीर मदीय मनः ! त्वम् (मदच्युता) मदच्युतौ, शत्रूणां मदं च्यावयितारौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युङ्क्ष्व) ज्ञानग्रहणे कर्मकरणे च नियोजय। (कम्) कञ्चित्, शत्रुमिति भावः (हनः) जहि, (कम्) कञ्चित्, मित्रमिति भावः (वसौ दधः) वसुनि ऐश्वर्ये स्थापय। (अस्मान्) मित्रभूतान् (वसौ दधः) ऐश्वर्य एव स्थापय ॥३॥२
भावार्थः - आन्तरिकेषु बाह्येषु वा युद्धेषूपस्थितेषु मन उत्साह्य ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च स्वेषु स्वेषु विषयेषु सम्यङ् नियोज्य यथावच्छत्रूणां गतिविधिं ज्ञात्वा प्रहृत्य च समस्ता रिपवः पराजेया मित्राणि च सत्कर्तव्यानि ॥३॥
टिप्पणीः -
१. ऋ० १।८१।३, अथ० २०।५६।३, उभयत्र ‘धनम्’ ‘युङ्क्ष्वा’ इत्यत्र ‘धना॑’,‘यु॒क्ष्वा’ इति पाठः। साम० ४१४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सेनापतिविषये व्याचष्टे।