Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1005
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
11
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१००५॥
स्वर सहित पद पाठस्वा꣣दोः꣢ । इ꣣त्था꣢ । वि꣣षूव꣡तः꣢ । वि꣣ । सूव꣡तः꣢ । म꣡धोः꣢꣯ । पि꣣बन्ति । गौर्यः꣢ । याः । इ꣡न्द्रे꣢꣯ण । स꣣या꣡व꣢रीः । स꣣ । या꣡व꣢꣯रीः । वृ꣡ष्णा꣢꣯ । म꣡द꣢꣯न्ति । शो꣣भ꣡था꣢ । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००५॥
स्वर रहित मन्त्र
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१००५॥
स्वर रहित पद पाठ
स्वादोः । इत्था । विषूवतः । वि । सूवतः । मधोः । पिबन्ति । गौर्यः । याः । इन्द्रेण । सयावरीः । स । यावरीः । वृष्णा । मदन्ति । शोभथा । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००५॥
सामवेद - मन्त्र संख्या : 1005
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४०९ क्रमाङ्के आत्मिकस्य राष्ट्रियस्य च स्वराज्यस्य विषये व्याख्याता। अत्र सूर्यस्य स्वराज्यं वर्ण्यते।
पदार्थः -
(गौर्यः) रोचमानाः सूर्यदीधितयः। [गौरी रोचतेर्ज्वलतिकर्मणः। निरु० ११।३९।] (इत्था) सत्यम् (वि-सुवतः) विशेषेण भूमौ वर्षतः पर्जन्यस्य (स्वादोः) उत्कृष्टस्वादवतः (मधोः) मधुरस्य उदकस्य। [द्वितीयार्थे षष्ठी।] (पिबन्ति) पानं कुर्वन्ति, (याः) सूर्यदीधितयः (वृष्णा) वर्षकेण (इन्द्रेण) सूर्येण (सयावरीः) सयावर्यः, सह वर्तमानाः सत्यः (शोभया) शोभनप्रकारेण (मदन्ति) मदयन्ति। [मदी हर्षग्लेपनयोः भ्वादिः, णिज्गर्भः।] (वस्वीः) वस्व्यः निवासयित्र्यः ताः (स्वराज्यम्) सूर्यस्य स्वकीयं साम्राज्यम् (अनु) अनुसरन्ति। [उपसर्गबलाद् योग्यक्रियाध्याहारः] ॥१॥२
भावार्थः - अहो, दर्शनीयं सूर्यस्य स्वराज्यम्। कथं सूर्यरश्मयो निर्बाधाः सन्तो मेघाभिवृष्टं नदीनदसमुद्रादिषु व्याप्तं पयः पीत्वा पुनर्मेघान् निर्माय पुनरप्युदकं भूमौ वर्षन्ति। तथैवास्माभिरप्यन्तःस्वराज्यं राष्ट्रस्य च स्वराज्यमर्चनीयम् ॥१॥
टिप्पणीः -
१. ऋ० १।८४।१०, अथ० २०।१०९।१, उभयत्र ‘मधोः’, ‘शोभथा’ इत्यत्र ‘मध्वः॑’, ‘शो॒भसे॒’ इति पाठः। साम० ४०९। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘नहि स्वसेनापतिभिर्वीरसेनाभिश्च विना स्वराज्यस्य शोभारक्षणे भवितुं शक्ये’ इति विषये व्याख्यातवान्।