Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1006
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
7
ता꣡ अ꣢स्य पृशना꣣यु꣢वः꣣ सो꣡म꣢ꣳ श्रीणन्ति꣣ पृ꣡श्न꣢यः । प्रि꣣या꣡ इन्द्र꣢꣯स्य धे꣣न꣢वो꣣ व꣡ज्र꣢ꣳ हिन्वन्ति꣣ सा꣡य꣢कं꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥१००६॥
स्वर सहित पद पाठताः । अ꣣स्य । पृशनायु꣡वः꣢ । सो꣡म꣢꣯म् । श्री꣣णन्ति । पृ꣡श्न꣢꣯यः । प्रि꣣याः꣢ । इ꣡न्द्र꣢꣯स्य । धे꣣न꣡वः꣢ । व꣡ज्र꣢꣯म् । हि꣣न्वन्ति । सा꣡य꣢꣯कम् । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००६॥
स्वर रहित मन्त्र
ता अस्य पृशनायुवः सोमꣳ श्रीणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रꣳ हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥१००६॥
स्वर रहित पद पाठ
ताः । अस्य । पृशनायुवः । सोमम् । श्रीणन्ति । पृश्नयः । प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००६॥
सामवेद - मन्त्र संख्या : 1006
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(अस्य) इन्द्राख्यस्य सूर्यस्य (ताः पृश्नयः) ताः नानावर्णा दीधितयः (पृशनायुवः२) चन्द्रमसा पृशनं स्पर्शं कामयमाना इव (सोमम्) चन्द्रमसम् (श्रीणन्ति) प्रकाशेन परिपक्वं कुर्वन्ति। [श्रीञ् पाके क्र्यादिः।] (इन्द्रस्य) सूर्यस्य, ताः (प्रियाः) प्रेमार्हाः (धेनवः) दीधितयः (सायकम्) दुर्भिक्षादीनाम् अन्तकरम्। [स्यति विनाशयतीति सायकः, षो अन्तकर्मणि।] (वज्रम्) मेघस्थं विद्युद्वज्रम् (हिन्वन्ति) प्रेरयन्ति। एवम् (वस्वीः) वस्व्यः निवासहेतुकास्ताः (स्वराज्यम्) सूर्यस्य स्वकीयं साम्राज्यम् (अनु) अनुसरन्ति ॥२॥३ अत्र ‘पृशनायुवः’ इत्यत्र व्यङ्ग्योत्प्रेक्षालङ्कारः ॥२॥
भावार्थः - सूर्यरश्मीनामेवेदं प्रशंसनीयं महत् कार्यं यत्ते सूर्यस्य स्वराज्यमनुसरन्तश्चन्द्रादीन् लोकान् प्रकाशयन्ति, मेघेषु विद्युद्वज्रं गर्जयन्तो वृष्टिं कुर्वन्ति, सर्वान् निवासयन्ति च। तथैव मनुष्यैरपि स्वकीयमान्तरं बाह्यं च स्वराज्यं प्रकाशनीयम् ॥२॥
टिप्पणीः -
१. ऋ० १।८४।११। २. पृशनायुवः स्पर्शनकामाः—इति सा०। आत्मनः स्पर्शमिच्छन्त्यः अत्र छान्दसो वर्णलापो वेति सलोपः—इति ऋ० १।८४।११ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सूर्यकिरणपक्षे सेनापक्षे च व्याख्यातवान्।