Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1003
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
7

अ꣢सि꣣ हि꣡ वी꣢र꣣ से꣢꣫न्योऽसि꣣ भू꣡रि꣢ पराद꣣दिः꣢ । अ꣡सि꣢ द꣣भ्र꣡स्य꣢ चिद्वृ꣣धो꣡ यज꣢꣯मानाय शिक्षसि सुन्व꣣ते꣡ भूरि꣢꣯ ते꣣ व꣡सु꣢ ॥१००३॥

स्वर सहित पद पाठ

अ꣡सि꣢꣯ । हि । वी꣣र । से꣡न्यः꣢꣯ । अ꣡सि꣢꣯ । भू꣡रि꣢꣯ । प꣣राददिः꣢ । प꣣रा । ददिः꣢ । अ꣡सि꣢꣯ । द꣣भ्र꣡स्य꣢ । चि꣣त् । वृधः꣢ । य꣡ज꣢꣯मानाय । शि꣣क्षसि । सुन्वते꣢ । भू꣡रि꣢꣯ । ते । व꣡सु꣢꣯ ॥१००३॥


स्वर रहित मन्त्र

असि हि वीर सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥१००३॥


स्वर रहित पद पाठ

असि । हि । वीर । सेन्यः । असि । भूरि । पराददिः । परा । ददिः । असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥१००३॥

सामवेद - मन्त्र संख्या : 1003
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (वीर) वीर इन्द्र, पराक्रमशालि मनः ! त्वम् (सेन्यः२) सेनासु साधुः, सेनापतिः (असि) विद्यसे, किञ्च (भूरि) बहु (पराददिः) शत्रून् दूरं प्रक्षेप्ता (असि) विद्यसे। अपि च (दभ्रस्य चित्) क्षुद्रस्य अपि (वृधः) वर्धयिता (असि) विद्यसे। त्वम् (यजमानाय) यजनशीलाय परोपकारिणे जनाय (शिक्षसि) बलं प्रयच्छसि। [शिक्षतिः दानकर्मा। निघं० ३।२०।] (सुन्वते) वीररसाभिषवं कुर्वते जनाय (ते) तव (भूरि) बहु (वसु) ऐश्वर्यं भवतीति शेषः ॥२॥३

भावार्थः - यदा मनुष्याः स्वकीयं मनः सैनापत्येऽभिषिच्यान्तरान् बाह्यांश्च शत्रून् विजेतुं यतन्ते तदा विजयो निश्चितो जायते ॥२॥

इस भाष्य को एडिट करें
Top