Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1012
ऋषिः - कृतयशा आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
आ꣡ व꣢च्यस्व सुदक्ष च꣣꣬म्वोः꣢꣯ सु꣣तो꣢ वि꣣शां꣢꣫ वह्नि꣣र्न꣢ वि꣣श्प꣡तिः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ प꣢वस्व री꣣ति꣢म꣣पो꣢꣫ जिन्व꣣न्ग꣡वि꣢ष्टये꣣ धि꣡यः꣢ ॥१०१२॥
स्वर सहित पद पाठआ꣢ । व꣣च्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सु꣣तः꣢ । वि꣣शा꣢म् । व꣡ह्निः꣢꣯ । न । वि꣣श्प꣡तिः꣢ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣣वस्व । रीति꣢म् । अ꣣पः꣢ । जि꣡न्व꣢꣯न् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । धि꣡यः꣢꣯ ॥१०१२॥
स्वर रहित मन्त्र
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥१०१२॥
स्वर रहित पद पाठ
आ । वच्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपः । जिन्वन् । गविष्टये । गो । इष्टये । धियः ॥१०१२॥
सामवेद - मन्त्र संख्या : 1012
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरप्याचार्य उच्यते।
पदार्थः -
हे (सुदक्ष) शुभयोग बलयुक्त आचार्यप्रवर ! (चम्वोः) द्यावापृथिव्योरिव पराऽपराविद्ययोः (सुतः) निष्णातः त्वम् (विशाम्) प्रजानाम् (वह्निः) भारवाहकः (विश्पतिः न) प्रजापालकः नृपतिरिव (आ वच्यस्व) प्रशंसां लभस्व। [वच परिभाषणे, कर्मणि ‘उच्यस्व’ इति प्राप्ते सम्प्रसारणाभावश्छान्दसः।] (गविष्टये) गोकामाय दिव्यप्रकाशेच्छुकाय शिष्याय मह्यम् (धियः) प्रज्ञानानि (जिन्वन्) प्रेरयन् त्वम् (दिवः) मूर्धलोकात् (वृष्टिम्) धर्ममेघसमाधौ जायमानां ज्योतिर्वृष्टिम् (अपः) आनन्दवारिणश्च (रीतिम्) धाराम्। [री गतिरेषणयोः, क्र्यादिः।] (पवस्व) प्रवाहय ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - योगविद्यापारंगत आचार्यो भौतिकविज्ञानेषु पण्डित्येन साकं योगविद्यापाण्डित्यमपि शिष्याणां कुर्वन् तेषां पुरतो दिव्यज्योतिषो ब्रह्मानन्दस्य च धारामिव प्रवाहयति ॥२॥
टिप्पणीः -
१. ऋ० ९।१०८।१०, ‘री॒तिम॒यां जिन्वा॒’ इति पाठः।