Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1011
ऋषिः - ऊर्ध्वसद्मा आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
4
अ꣣भि꣢ द्यु꣣म्नं꣡ बृ꣣ह꣢꣫द्यश꣣ इ꣡ष꣢स्पते दीदि꣣हि꣡ दे꣢व देव꣣यु꣢म् । वि꣡ कोशं꣢꣯ मध्य꣣मं꣡ यु꣢व ॥१०११॥
स्वर सहित पद पाठअ꣣भि꣢ । द्यु꣣म्न꣢म् । बृ꣣ह꣢त् । य꣡शः꣢꣯ । इ꣡षः꣢꣯ । प꣣ते । दिदीहि꣢ । दे꣣व । देवयु꣢म् । वि । को꣡श꣢꣯म् । म꣣ध्यम꣡म् । यु꣣व ॥१०११॥
स्वर रहित मन्त्र
अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् । वि कोशं मध्यमं युव ॥१०११॥
स्वर रहित पद पाठ
अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवयुम् । वि । कोशम् । मध्यमम् । युव ॥१०११॥
सामवेद - मन्त्र संख्या : 1011
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५७९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र योगिराड् आचार्यः सम्बोध्यते।
पदार्थः -
हे (इषः पते) विज्ञानस्य स्वामिन् योगिप्रवर आचार्य ! त्वम् (द्युम्नम्) अध्यात्मं तेजः, (बृहद् यशः) विशालां कीर्तिं च (अभि) शिष्यानस्मान् अभिप्रापय। हे (देव) योगविद्यया प्रकाशित विद्वन् ! त्वम् (देवयुम्) देवं परमात्मानं कामयमानं माम्, (दिदीहि) परमात्मदर्शनेन प्रकाशय। (मध्यमं कोशम्) पञ्चकोशेषु मध्यस्थं मदीयं मनोमयं कोशम् (वि युव) समुद्घाटय, येनाहं विज्ञानमयमानन्दमयं च कोशमारोढुं प्रभवेयम् ॥१॥
भावार्थः - योगविद्यानिष्णातस्याचार्यस्यानुशासने तिष्ठन् शिष्यः सर्वामध्यात्मविद्यामुपलभ्य परमात्मसाक्षात्कारे समर्थो जायते ॥१॥
टिप्पणीः -
१. ऋ० ९।१०८।९, ‘देव॒युः’ इति पाठः। साम० ५७९।