Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1014
ऋषिः - त्रित आप्त्यः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

उ꣡प꣢ त्रि꣣त꣡स्य꣢ पा꣣ष्यो꣢३꣱र꣡भ꣢क्त꣣ य꣡द्गुहा꣢꣯ प꣣द꣢म् । य꣣ज्ञ꣡स्य꣢ स꣣प्त꣡ धाम꣢꣯भि꣣र꣡ध꣢ प्रि꣣य꣢म् ॥१०१४॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । त्रि꣣त꣡स्य꣢ । पा꣣ष्योः꣢ । अ꣡भ꣢꣯क्त । यत् । गु꣡हा꣢꣯ । प꣡द꣢म् । य꣣ज्ञ꣡स्य꣢ । स꣣प्त꣢ । धा꣡म꣢꣯भिः । अ꣡ध꣢꣯ । प्रि꣣य꣢म् ॥१०१४॥


स्वर रहित मन्त्र

उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदम् । यज्ञस्य सप्त धामभिरध प्रियम् ॥१०१४॥


स्वर रहित पद पाठ

उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहा । पदम् । यज्ञस्य । सप्त । धामभिः । अध । प्रियम् ॥१०१४॥

सामवेद - मन्त्र संख्या : 1014
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(यत्) यस्मात् सः पवमानः सोमः सर्वान्तर्यामी जगत्स्रष्टा परमेश्वरः (पाष्योः) द्यावापृथिव्योः [पष गतौ बन्धने च। पाषयतः बध्नीतः सर्वान् पदार्थान् स्वान्तराले ते पाष्यौ द्यावापृथिव्यौ।] (गुहा) गुहासु अपि (त्रितस्य) पृथिव्यन्तरिक्षद्युरूपत्रिस्थानस्य सूर्यस्य। [त्रितः त्रिस्थान इन्द्रः निरु० ९।४५।] (पदम्) किरणरूपम् (उप अभक्त) उपधत्ते, (अध) तस्मात् (यज्ञस्य) देहे संगतस्य जीवात्मनः (सप्त धामभिः) पञ्च ज्ञानेन्द्रियाणि मनो बुद्धिश्चेति सप्त धामानि तैः (प्रियम्) तं प्रीत्यास्पदं परमेश्वरम्, सपर्यत इति शेषः ॥२॥

भावार्थः - परमात्मनः कीदृश्यद्भुता व्यवस्था विद्यते यत् सूर्यकिरणा विभिन्नलोकानां भूगर्भमपि प्राप्य तत्र स्वतापेन सुवर्णादिधातून् जनयन्ति ॥२॥

इस भाष्य को एडिट करें
Top