Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1038
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

आ꣡ व꣢च्यस्व꣣ म꣢हि꣣ प्स꣢रो꣣ वृ꣡षे꣢न्दो द्यु꣣म्न꣡व꣢त्तमः । आ꣡ योनिं꣢꣯ धर्ण꣣सिः꣡ स꣢दः ॥१०३८॥

स्वर सहित पद पाठ

आ । व꣣च्यस्व । म꣡हि꣢꣯ । प्स꣡रः꣢꣯ । वृ꣡षा꣢꣯ । इ꣣न्दो । द्युम्न꣡व꣢त्तमः । आ । यो꣡नि꣢꣯म् । ध꣣र्णसिः꣢ । स꣣दः ॥१०३८॥


स्वर रहित मन्त्र

आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । आ योनिं धर्णसिः सदः ॥१०३८॥


स्वर रहित पद पाठ

आ । वच्यस्व । महि । प्सरः । वृषा । इन्दो । द्युम्नवत्तमः । आ । योनिम् । धर्णसिः । सदः ॥१०३८॥

सामवेद - मन्त्र संख्या : 1038
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे परमात्मन् ! त्वम् अस्माभिः (आ वच्यस्व) आ स्तूयस्व। [वच परिभाषणे, कर्मणि लोण्मध्यमैकवचने उच्यस्व इति प्राप्ते सम्प्रसारणाभावश्छान्दसः।] त्वम् अस्मभ्यम् (महि प्सरः) सत्यन्यायशौर्यदयादाक्षिण्यादिकं महद् रूपम्, प्रयच्छेति शेषः। हे (इन्दो) रसागार, रसेन क्लेदक भगवन् ! त्वम् (वृषा) आनन्दवर्षकः, (द्युम्नवत्तमः) तेजस्वितमश्च, असि। (धर्णसिः) जगद्धारकः त्वम्। [धृञ् धारणे धातोः ‘सानसिवर्णसिपर्णसि०। उ० ४।१०८’ इति बाहुलकाद् असि प्रत्ययो नुगागमश्च।] (योनिम्) अस्माकम् आत्मसदनम्। [योनिः गृहनाम। निघं० ३।४।] (आसदः) आसीद ॥२॥ अत्र जगद्धारको विराट् परमेश्वरः स्वल्पे जीवात्मगृहे कथं समेयादिति विरूपसंघटनारूपो विषमालङ्कारः ॥२॥

भावार्थः - आराधितः परमेश्वर उपासकस्यान्तरात्मन्यानन्दं वर्षं वर्षं तं महदुपकरोति ॥२॥

इस भाष्य को एडिट करें
Top