Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1039
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣡धु꣢क्षत प्रि꣣यं꣢꣫ मधु꣣ धा꣡रा꣢ सु꣣त꣡स्य꣢ वे꣣ध꣡सः꣢ । अ꣣पो꣡ व꣢सिष्ट सु꣣क्र꣡तुः꣢ ॥१०३९॥
स्वर सहित पद पाठअ꣡धु꣢꣯क्षत । प्रि꣡य꣢म् । म꣡धु꣢꣯ । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । वे꣣ध꣡सः꣢ । अ꣣पः꣢ । व꣣सिष्ट । सुक्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ ॥१०३९॥
स्वर रहित मन्त्र
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । अपो वसिष्ट सुक्रतुः ॥१०३९॥
स्वर रहित पद पाठ
अधुक्षत । प्रियम् । मधु । धारा । सुतस्य । वेधसः । अपः । वसिष्ट । सुक्रतुः । सु । क्रतुः ॥१०३९॥
सामवेद - मन्त्र संख्या : 1039
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मध्यानस्य फलमाह।
पदार्थः -
(सुतस्य) अन्तरात्मनि प्रकटीकृतस्य (वेधसः) सर्वजगद्विधातुः सोमस्य परमात्मनः (धारा) वेदवाक्, [धारा इति वाङ्नाम। निघं० १।११।] (प्रियम्) प्रीत्यास्पदम् (मधु) मधुरम् आनन्दरसम् (अधुक्षत) उपासकस्य अन्तरात्मनि दोग्धि। (सुक्रतुः) सुकर्मा स परमात्मा (अपः) उपासकस्य कर्माणि (वसिष्ट) आच्छादयति, व्याप्नोति, तद्द्वारा शुभानि लोकहितकराण्येव कर्माणि कारयति नाशुभानीत्यर्थः। [वस आच्छादने, लडर्थे लुङि अडागमाभावश्छान्दसः] ॥३॥
भावार्थः - मनुष्याणां योग्यमस्ति यत्ते परमेश्वरस्य ध्यानेनानन्दप्राप्तिं शुभकर्मसु प्रवृत्तिं च प्राप्नुयुः ॥३॥
टिप्पणीः -
१. ऋ० ९।२।३।