Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1041
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

स꣣मुद्रो꣢ अ꣣प्सु꣡ मा꣢मृजे विष्ट꣣म्भो꣢ ध꣣रु꣡णो꣢ दि꣣वः꣢ । सो꣡मः꣢ प꣣वि꣡त्रे꣢ अस्म꣣युः꣢ ॥१०४१॥

स्वर सहित पद पाठ

स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । अ꣣प्सु꣢ । मा꣣मृजे । विष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । ध꣣रु꣡णः꣢ । दि꣣वः꣢ । सो꣡मः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣स्मयुः꣢ ॥१०४१॥


स्वर रहित मन्त्र

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥१०४१॥


स्वर रहित पद पाठ

समुद्रः । सम् । उद्रः । अप्सु । मामृजे । विष्टम्भः । वि । स्तम्भः । धरुणः । दिवः । सोमः । पवित्रे । अस्मयुः ॥१०४१॥

सामवेद - मन्त्र संख्या : 1041
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment

पदार्थः -
(समुद्रः) आनन्दरसान् उद्रेचयिता। [समुद्रः कस्मात् ? समुद्द्रवन्त्यस्मादापः। निरु० २।१०।] (विष्टम्भः) सर्वेषामाश्रयदाता, (दिवः) सूर्यस्य (धरुणः) धारकः। [धरतीति धरुणः। धृञ् धारणे बाहुलकादौणादिकः उन प्रत्ययः।] (अस्मयुः) अस्मान् कामयमानः (सोमः) जगत्स्रष्टा परमेश्वरः (पवित्रे) वायौ। [वायुः पवित्रमुच्यते। निरु० ५।६।] (अप्सु) उदकेषु च (मामृजे) नित्यं मार्जनं शुद्धिं करोति। [पवित्रम् अपः ममृजे इति प्राप्ते द्वितीयार्थे सप्तमी। मृजूष् शुद्धौ, लिटि ‘तुजादीनां दीर्घोभ्यासस्य। अ० ६।१।७’ इत्यभ्यासदीर्घः] ॥५॥

भावार्थः - यदि जलवाय्वादीन् प्राकृतिकपदार्थान् सूर्यद्वारा दिने दिने जगदीश्वरो नामार्क्ष्यत् तर्हि मलानां पुञ्जभूतास्ते कस्यचिदुपयोगयोग्या अपि नाभविष्यन् ॥५॥

इस भाष्य को एडिट करें
Top