Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1042
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥१०४२॥

स्वर सहित पद पाठ

अ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥१०४२॥


स्वर रहित मन्त्र

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥१०४२॥


स्वर रहित पद पाठ

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥१०४२॥

सामवेद - मन्त्र संख्या : 1042
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment

पदार्थः -
परमेश्वरस्यैवायं महिमा यत् (हरिः) वायुना इतस्ततो ह्रियमाणः (वृषाः) वर्षकः पर्जन्यः (मित्रः न) सुहृदिव (दर्शतः) दर्शनीयो भवति। किञ्च स पर्जन्यः (सूर्येण) आदित्यद्वारा (सं दिद्युते) सम्यक् दीप्यते, विद्युच्छटाभिर्भासते ॥६॥ अत्रोपमालङ्कारः ॥६॥

भावार्थः - पर्जन्यो यदा गर्जति विद्युतं विद्योतयति वर्षति च तदा ग्रीष्मतापेन तप्ता जनास्तस्य मित्रवत् स्वागतं कुर्वन्ति। पर्जन्यस्य य उपकारास्सन्ति ते वस्तुतः परमेश्वरस्यैवोपकारा मन्तव्यास्तेनैव तस्य सञ्चालितत्वात् ॥६॥

इस भाष्य को एडिट करें
Top