Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1070
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

भि꣣न्धि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣢षः꣣ प꣢रि꣣ बा꣡धो꣢ ज꣣ही꣡ मृधः꣢꣯ । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१०७०॥

स्वर सहित पद पाठ

भि꣣न्धि꣢ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । ज꣣हि꣢ । मृ꣡धः꣢꣯ । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७०॥


स्वर रहित मन्त्र

भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥१०७०॥


स्वर रहित पद पाठ

भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर ॥१०७०॥

सामवेद - मन्त्र संख्या : 1070
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे इन्द्र वीर मदीय अन्तरात्मन् ! त्वम् (विश्वाः द्विषः) समस्ताः द्वेष्ट्रीः रिपुसेनाः (अपभिन्धि) अप विदारय, (बाधः) बाधकान् (मृधः) हिंसकान् (परि जहि) परितो विनाशय। यत् (स्पार्हम्) स्पृहणीयम् (वसु) दिव्यं भौतिकं च धनमस्ति (तद्) धनम् (आ भर) आहर, उपार्जय ॥१॥ अत्रैकेन कारकेणानेकक्रियायोगाद् दीपकालङ्कारः ॥१॥

भावार्थः - मनुष्यस्यान्तरात्मा चेत् प्रबुद्धस्तर्हि स सर्वं किञ्चित् साद्धुं शक्नोति ॥१॥

इस भाष्य को एडिट करें
Top