Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1071
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

य꣡स्य꣢ ते꣣ वि꣡श्व꣢मानु꣣ष꣡ग्भूरे꣢꣯र्द꣣त्त꣢स्य꣣ वे꣡द꣢ति । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१०७१॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । ते꣣ । वि꣡श्व꣢꣯म् । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । भू꣡रेः꣢꣯ । द꣣त्त꣡स्य꣢ । वे꣡द꣢꣯ति । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७१॥


स्वर रहित मन्त्र

यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥१०७१॥


स्वर रहित पद पाठ

यस्य । ते । विश्वम् । अनुषक् । अनु । सक् । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर ॥१०७१॥

सामवेद - मन्त्र संख्या : 1071
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे इन्द्र ऐश्वर्यशालिन् परमात्मन् ! (यस्य ते) यस्य तव (भूरेः) प्रचुरस्य (दत्तस्य) वितीर्णस्य धनस्य (विश्वम्) सकलं जगत् (आनुषक्) नैरन्तर्येण (वेदति) वेत्ति, [विद ज्ञाने, लेटि अडागमः।], (तत् स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं च धनम् (आ भर) अस्मभ्यमपि प्रयच्छ ॥२॥

भावार्थः - ब्रह्माण्डे यत्किञ्चिदपि धनं विकीर्णमस्ति तत् सर्वं परमात्मप्रदत्तमेव। वयमपि स्वपुरुषार्थेन तस्य धनस्य भागिनो भवेम ॥२॥

इस भाष्य को एडिट करें
Top