Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1076
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

इ꣡न्द्रा꣢येन्दो म꣣रु꣡त्व꣢ते꣣ प꣡व꣢स्व꣣ म꣡धु꣢मत्तमः । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥१०७६॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । इ꣣न्दो । मरु꣡त्व꣢ते । प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१०७६॥


स्वर रहित मन्त्र

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । अर्कस्य योनिमासदम् ॥१०७६॥


स्वर रहित पद पाठ

इन्द्राय । इन्दो । मरुत्वते । पवस्व । मधुमत्तमः । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥१०७६॥

सामवेद - मन्त्र संख्या : 1076
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्दो) ज्ञानरसागार आचार्य ! (मधुमत्तमः) अतिशयेन मधुरः त्वम् (मरुत्वते) उत्कृष्टप्राणवते (इन्द्राय) शिष्याय मह्यम् (पवस्व) ज्ञानरसं प्रवाहय। अहम् (अर्कस्य) पूजनीयस्य तव (योनिम्) विद्यागृहम्, गुरुकुलम् (आसदम्) आगतोऽस्मि ॥१॥

भावार्थः - गुरुकुलं प्रविष्टेभ्यश्छात्रेभ्यो विद्वांसो मधुरस्वभावा गुरवः प्रेम्णा सर्वा विद्याः प्रयच्छेयुः, शिष्याश्च तान् श्रद्धया सत्कुर्युः ॥१॥

इस भाष्य को एडिट करें
Top