Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1077
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
तं꣢ त्वा꣣ वि꣡प्रा꣢ वचो꣣वि꣢दः꣣ प꣡रि꣢ष्कृण्वन्ति धर्ण꣣सि꣢म् । सं꣡ त्वा꣢ मृजन्त्या꣣य꣡वः꣢ ॥१०७७॥
स्वर सहित पद पाठतम् । त्वा꣣ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । वचो । वि꣡दः꣢ । व꣣चः । वि꣡दः꣢꣯ । प꣡रि꣢꣯ । कृ꣣ण्वन्ति । धर्णसि꣢म् । सम् । त्वा꣣ । मृजन्ति । आय꣡वः꣢ ॥१०७७॥
स्वर रहित मन्त्र
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् । सं त्वा मृजन्त्यायवः ॥१०७७॥
स्वर रहित पद पाठ
तम् । त्वा । विप्राः । वि । प्राः । वचो । विदः । वचः । विदः । परि । कृण्वन्ति । धर्णसिम् । सम् । त्वा । मृजन्ति । आयवः ॥१०७७॥
सामवेद - मन्त्र संख्या : 1077
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि गुरुशिष्यविषयमेवाह।
पदार्थः -
हे शिष्य ! (धर्णसिम्) विद्याया ग्रहीतारम्, (तं त्वा) गुरुकुलं प्रविष्टं तादृशं त्वाम् (वचोविदः) निखिलवाङ्मयस्य वेत्तारः (विप्राः) ब्राह्मणा गुरुजनाः (परिष्कृण्वन्ति) परिष्कुर्वन्ति, (आयवः) क्रियाशीलाः आचार्याः [यन्ति क्रियातत्परास्तिष्ठन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (त्वा) त्वाम् (सं मृजन्ति) सम्यक् शोधयन्ति, सद्गुणैः सम्यगलङ्कुर्वन्ति च ॥२॥
भावार्थः - गुरूणामिदं कर्त्तव्यं यत्ते विद्यायाः सदाचारस्य च दानेन शिष्याणां हृदयानि परिष्कृतानि शुद्धान्यलङ्कृतानि च कुर्वन्तु ॥२॥
टिप्पणीः -
१. ऋ० ९।६४।२३, ‘धर्णसिम्’ इत्यत्र ‘वे॒धसः॑’।