Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1080
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

पु꣣नानो꣢꣫ वारे꣣ प꣡व꣢मानो अ꣣व्य꣢ये꣣ वृ꣡षो꣢ अचिक्रद꣣द्व꣡ने꣢ । दे꣣वा꣡ना꣢ꣳ सोम पवमान निष्कृ꣣तं꣡ गोभि꣢꣯रञ्जा꣣नो꣡ अ꣢र्षसि ॥१०८०

स्वर सहित पद पाठ

पुनानः꣢ । वा꣡रे꣢꣯ । प꣡व꣢꣯मानः । अ꣡व्य꣡ये꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । दे꣣वा꣡ना꣢म् । सो꣣म । पवमान । निष्कृत꣢म् । निः꣣ । कृत꣢म् । गो꣡भिः꣢꣯ । अ꣣ञ्जानः꣢ । अ꣣र्षसि ॥१०८०॥


स्वर रहित मन्त्र

पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने । देवानाꣳ सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥१०८०


स्वर रहित पद पाठ

पुनानः । वारे । पवमानः । अव्यये । वृषा । उ । अचिक्रदत् । वने । देवानाम् । सोम । पवमान । निष्कृतम् । निः । कृतम् । गोभिः । अञ्जानः । अर्षसि ॥१०८०॥

सामवेद - मन्त्र संख्या : 1080
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(वारे) वरणीये (अव्यये) अविमये पार्थिवे लोके। [इयं (पृथिवी) वा अविः, इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३।] (पवमानः) गच्छन् (पुनानः) पवित्रतां च कुर्वन् (वृषा उ२) सुखादिवर्षकः परमात्मा खलु (वने) मेघोदके। [वनमित्युदकनाम निघं० १।१२।] (अचिक्रदत्) स्तनयित्नुशब्दं कारयति। हे (पवमान) पवित्रतादायक (सोम) जगत्स्रष्टः परमात्मन् ! त्वम् (देवानाम्) दिव्यानामग्निजलवाय्वादीनाम् (निष्कृतम्) गृहम् भूलोकमित्यर्थः (गोभिः) सूर्यरश्मिभिः (अञ्जानः) व्यक्तं कुर्वन् प्रकाशयन् (अर्षसि) कर्मण्योऽसि ॥२॥

भावार्थः - अन्तरिक्षे मेघगर्जनं, वृष्टिद्वारा भूलोकस्य पवित्रीकरणं, सूर्यकिरणैर्भूमण्डलस्य प्रकाशनमित्यादि सर्वं कर्म जगत्पतिः परमेश्वर एव करोति, नान्यः कश्चित् ॥२॥

इस भाष्य को एडिट करें
Top