Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1079
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
8

मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥१०७९॥

स्वर सहित पद पाठ

मृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्य । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣢र्षसि ॥१०७९॥


स्वर रहित मन्त्र

मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥१०७९॥


स्वर रहित पद पाठ

मृज्यमानः । सुहस्त्य । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥१०७९॥

सामवेद - मन्त्र संख्या : 1079
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सुहस्त्य) सुहस्तकलाकुशल जगदीश्वर ! [हस्ते हस्तक्रियायां साधुः हस्त्यः, शोभनश्चासौ हस्त्यः सुहस्त्यः।] (मृज्यमानः) सद्गुणकर्मस्वभावैः अलङ्क्रियमाणः त्वम् (समुद्रे) अन्तरिक्षे। [समुद्र इत्यन्तरिक्षनाम। निघं० १।३।] (वाचम्) स्तनयित्नुशब्दम् (इन्वसि) प्रेरयसि। [इन्वति गतिकर्मा। निघं० २।१४।] अपि च, हे (पवमान) सर्वान्तर्यामिन् ! त्वम् (बहुलम्) प्रचुरम् (पुरुस्पृहम्) बहु स्पृहणीयम् (पिशङ्गं रयिम्) पिङ्गलवर्णं धनं सुवर्णादिकम् (अभि) अस्मान् प्रति (अर्षसि) गमयसि ॥१॥

भावार्थः - अन्तरिक्षे मेघनिर्माणं, वृष्टिकर्मादिकं, निःशुल्कं बहुमूल्यधनाद्युत्पादनं च परमेश्वरस्यैव कर्म विद्यते ॥१॥

इस भाष्य को एडिट करें
Top