Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1083
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
स꣢ नो꣣ भ꣡गा꣢य वा꣣य꣡वे꣢ पू꣣ष्णे꣡ प꣢वस्व꣣ म꣡धु꣢मान् । चा꣡रु꣢र्मि꣣त्रे꣡ वरु꣢꣯णे च ॥१०८३॥
स्वर सहित पद पाठसः । नः꣣ । भ꣡गा꣢꣯य । वा꣣य꣡वे꣢ । पू꣣ष्णे꣢ । प꣣वस्व । म꣡धु꣢꣯मान् । चा꣡रुः꣢꣯ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । च꣣ ॥१०८३॥
स्वर रहित मन्त्र
स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारुर्मित्रे वरुणे च ॥१०८३॥
स्वर रहित पद पाठ
सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुमान् । चारुः । मित्रे । मि । त्रे । वरुणे । च ॥१०८३॥
सामवेद - मन्त्र संख्या : 1083
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि ज्ञानरसविषय एव वर्ण्यते।
पदार्थः -
हे सोम ज्ञानरस ! (सः) असौ (मधुमान्) मधुरः त्वम् (नः) अस्माकम् (भगाय) सूर्यतुल्याय नृपतये, (वायवे) गतिमते सेनाध्यक्षाय, (पूष्णे) पशुपालनकृषिवाणिज्यादिना समाजस्य पोषकाय वैश्यजनाय च (पवस्व) प्रक्षर। अपि च (चारुः) रमणीयः त्वम् (मित्रे) राष्ट्रस्थे ब्राह्मणजने (वरुणे च) शत्रुनिवारके क्षत्रियजने चापि (पवस्व) प्रक्षर ॥३॥
भावार्थः - राष्ट्रे ब्राह्मणक्षत्रियवैश्या नृपतिसेनापतिन्यायाध्यक्षादयः सामान्याः प्रजाजनाश्च सर्वेऽपि स्वस्वयोग्यतानुसारं ज्ञानस्य संचेतारो भवन्तु, येन राष्ट्रं प्रगतिपथमनुसरेत् ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मजीवात्मनोर्ज्ञानरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥
टिप्पणीः -
१. ऋ० ९।६१।९।