Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1095
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

त्वे꣡ विश्वे꣢꣯ स꣣जो꣡ष꣢सो दे꣣वा꣡सः꣢ पी꣣ति꣡मा꣢शत । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९५॥

स्वर सहित पद पाठ

त्वे꣡इति꣢ । वि꣡श्वे꣢꣯ । स꣣जो꣡ष꣢सः । स꣣ । जो꣡ष꣢꣯सः । दे꣣वा꣡सः꣢ । पी꣡ति꣢म् । आ꣣शत । म꣡दे꣢꣯षु । स꣣र्व꣢धाः । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९५॥


स्वर रहित मन्त्र

त्वे विश्वे सजोषसो देवासः पीतिमाशत । मदेषु सर्वधा असि ॥१०९५॥


स्वर रहित पद पाठ

त्वेइति । विश्वे । सजोषसः । स । जोषसः । देवासः । पीतिम् । आशत । मदेषु । सर्वधाः । सर्व । धाः । असि ॥१०९५॥

सामवेद - मन्त्र संख्या : 1095
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे सोम ज्ञानरसागार आचार्य ! (विश्वे) सर्वे (सजोषसः) सप्रीतयः (देवासः) दिव्यगुणयुक्ता ब्रह्मचारिणः शिष्याः (त्वे) त्वत्तः (पीतिम्) ज्ञानरसपानम् (आशत) प्राप्नुवन्ति। त्वम् (मदेषु) ज्ञानजनितेषु आनन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारकः (असि) भवसि ॥३॥

भावार्थः - ये शिष्यास्तपस्विनो ज्ञानानुरागिणो गुरूणां सत्कर्तारोऽहिंसासत्यास्तेयादि- दिव्यगुणयुक्ताश्च भवन्ति त एवाचार्यसकाशाज्ज्ञानग्रहणाधिकारिण- स्तत्प्रीतिपात्राणि च जायन्ते ॥३॥

इस भाष्य को एडिट करें
Top