Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1098
ऋषिः - पर्वतनारदौ काण्वौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

तं꣡ वः꣢ सखायो꣣ म꣡दा꣢य पुना꣣न꣢म꣣भि꣡ गा꣢यत । शि꣢शुं꣣ न꣢ ह꣣व्यैः꣡ स्व꣢दयन्त गू꣣र्ति꣡भिः꣢ ॥१०९८॥

स्वर सहित पद पाठ

त꣢म् । वः꣣ । सखायः । स । खायः । म꣡दा꣢꣯य । पु꣣नान꣢म् । अ꣣भि꣢ । गा꣣यत । शि꣡शु꣢꣯म् । न । ह꣡व्यैः꣢꣯ । स्व꣣दयन्त । गूर्ति꣡भिः꣢ ॥१०९८॥


स्वर रहित मन्त्र

तं वः सखायो मदाय पुनानमभि गायत । शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥१०९८॥


स्वर रहित पद पाठ

तम् । वः । सखायः । स । खायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । हव्यैः । स्वदयन्त । गूर्तिभिः ॥१०९८॥

सामवेद - मन्त्र संख्या : 1098
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सखायः) सुहृदः ! (वः मदाय) युष्माकम् आनन्दप्राप्तये उत्साहप्राप्तये च, यूयम् (तम्) प्रसिद्धम् (पुनानम्) पवित्रयन्तं सोमं जगत्पतिं परमेश्वरम् (अभि) अभिलक्ष्य (गायत) स्तुतिगीतानि प्रोच्चारयत। अन्येऽपि जनाः तम् (गूर्तिभिः) उद्यमैः, पुरुषार्थैः। [गुरी उद्यमने, तुदादिः। ततः क्तिच्।] (स्वदयन्त) प्रसादयन्तु, कथमिव ? (शिशुं न) शिशुं यज्ञाग्निं यथा (हव्यैः) हविर्भिः (स्वदयन्ति) तर्पयन्ति तथा ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - यथा यज्ञाग्निर्हविर्भिर्जागर्ति तथा परमात्मा मनुष्यस्य पुरुषार्थैः प्रसीदति। तस्य स्तुतिगीतानि गायद्भिः सर्वैः स्वजीवनमुन्नेतव्यम् ॥१॥

इस भाष्य को एडिट करें
Top