Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1099
ऋषिः - पर्वतनारदौ काण्वौ
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
8
सं꣢ व꣣त्स꣡ इ꣢व मा꣣तृ꣢भि꣣रि꣡न्दु꣢र्हिन्वा꣣नो꣡ अ꣢ज्यते । दे꣣वावी꣡र्मदो꣢꣯ म꣣ति꣢भिः꣣ प꣡रि꣢ष्कृतः ॥१०९९॥
स्वर सहित पद पाठसम् । व꣣त्सः꣢ । इ꣣व । मातृ꣡भिः꣢ । इ꣡न्दुः꣢꣯ । हि꣣न्वानः꣢ । अ꣣ज्यते । देवावीः꣢ । दे꣣व । अवीः꣢ । म꣡दः꣢꣯ । म꣣ति꣡भिः꣢ । प꣡रि꣢꣯ष्कृतः । प꣡रि꣢꣯ । कृ꣣तः ॥१०९९॥
स्वर रहित मन्त्र
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । देवावीर्मदो मतिभिः परिष्कृतः ॥१०९९॥
स्वर रहित पद पाठ
सम् । वत्सः । इव । मातृभिः । इन्दुः । हिन्वानः । अज्यते । देवावीः । देव । अवीः । मदः । मतिभिः । परिष्कृतः । परि । कृतः ॥१०९९॥
सामवेद - मन्त्र संख्या : 1099
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः परमात्मविषयमाह।
पदार्थः -
(देवावीः) सदाचारिणां विदुषां रक्षकः, (मदः) उत्साहकरः, (इन्दुः) आनन्दरसेन क्लेदकः रसागारः परमेश्वरः (हिन्वानः) स्तोतॄन् शुभगुणकर्मसु प्रेरयन्, (मातृभिः) धेनुभिः (परिष्कृतः) अलङ्कृतः, (जिह्वया) लेहनेन स्वच्छीकृत (वत्सः इव) तर्णकः इव (मतिभिः) स्तुतिभिः (परिष्कृतः) अलङ्कृतः सन्। [भूषणार्थे ‘संपर्युपेभ्यः करोतौ भूषणे’। अ० ६।१।१३७ इति सुडागमः, ‘परिनिविम्यः। अ० ८।३।७०’ इति षत्वम्।] (सम् अज्यते) समक्तो भवति, अन्तरात्मनि प्रकटीभवति ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - गोभिर्जिह्वया लेहनेन वत्सो यथाऽलङ्क्रियते तथा स्तोतृभिः स्तुतिभिः परमेश्वरोऽलङ्क्रियते। तदैव प्रच्छन्नः स उपासकस्याऽन्तरात्मन्याविर्भवति ॥२॥
टिप्पणीः -
१. ऋ० ९।१०५।२।