Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1100
ऋषिः - पर्वतनारदौ काण्वौ
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
अ꣣यं꣡ दक्षा꣢꣯य꣣ सा꣡ध꣢नो꣣ऽय꣡ꣳ शर्धा꣢꣯य वी꣣त꣡ये꣢ । अ꣣यं꣢ दे꣣वे꣢भ्यो꣣ म꣡धु꣢मत्तरः सु꣣तः꣢ ॥११००॥
स्वर सहित पद पाठअय꣢म् । द꣡क्षा꣢꣯य । सा꣡ध꣢꣯नः । अ꣡य꣢म् । श꣡र्धा꣢꣯य । वी꣣त꣡ये꣢ । अ꣣य꣢म् । दे꣣वे꣡भ्यः꣢ । म꣡धु꣢꣯मत्तरः । सु꣣तः꣢ ॥११००॥
स्वर रहित मन्त्र
अयं दक्षाय साधनोऽयꣳ शर्धाय वीतये । अयं देवेभ्यो मधुमत्तरः सुतः ॥११००॥
स्वर रहित पद पाठ
अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः । मधुमत्तरः । सुतः ॥११००॥
सामवेद - मन्त्र संख्या : 1100
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मा जनानां कमुपकारं करोतीत्याह।
पदार्थः -
(साधनः) सिद्धिप्रदाता (अयम्) एषः पवमानः सोमः पवित्रयिता परमेश्वरः (दक्षाय) आत्मबलाय भवति। (अयम्) एषः परमेश्वरः (शर्धाय) उत्साहाय (वीतये) जनानां प्रगतये च भवति। (सुतः) ध्यातः (अयम्) एषः (देवेभ्यः) विद्वद्भ्यः सदाचारिभ्यः उपासकेभ्यः (मधुमत्तरः) अतिशयेन मधुरो भवति ॥३॥
भावार्थः - श्रद्धयोपासितः परमेश्वर उपासकायात्मबलमुत्साहं प्रगतिं वाचि कर्मणि व्यवहारे च माधुर्यं प्रयच्छति ॥३॥
टिप्पणीः -
१. ऋ० ९।१०५।३, ‘मधु॑मत्तमः’ इति पाठः।