Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1101
ऋषिः - मनुः सांवरणः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥११०१॥

स्वर सहित पद पाठ

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣꣬ध्यः꣢ । सु꣣ । आ꣣꣬ध्यः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥११०१॥


स्वर रहित मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥११०१॥


स्वर रहित पद पाठ

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥११०१॥

सामवेद - मन्त्र संख्या : 1101
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
(इन्दवः) मधुरव्यवहारेण ज्ञानरसेन वा क्लेदकाः, (अस्मभ्यं गातुवित्तमाः) अस्मभ्यमतिशयेन मार्गदर्शयितारः, (मित्राः) मित्रभूताः, (स्वानाः) सुवानाः सद्गुणानुत्पादयन्तः, (अरेपसः) निष्पापाः, (स्वाध्यः)शोभनध्यानाः, (स्वर्विदः) दिव्यप्रकाशस्य आनन्दस्य वा लम्भकाः (सोमाः) ज्ञानरसागाराः गुरवः सत्कर्मसु प्रेरकाः राजपुरुषाश्च (पवन्ते) शिष्याणां प्रजाजनानां च जीवनानि पवित्रीकुर्वन्ति ॥१॥

भावार्थः - गुरवो राजपुरुषाश्च यदि विद्वांसो मधुरा मार्गदर्शका मित्रवद् व्यवहरन्तः शिक्षया सद्गुणानुत्पादयन्तो निरपराधा निर्दोषाः स्वकर्मणि दत्तावधानाः पावकाश्च भवन्ति तदैव ते शिष्याणां प्रजानां चोन्नतिं कर्तुं पारयन्ति ॥१॥

इस भाष्य को एडिट करें
Top