Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1102
ऋषिः - मनुः सांवरणः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
6
ते꣢ पू꣣ता꣡सो꣢ विप꣣श्चि꣢तः꣣ सो꣡मा꣢सो꣣ द꣡ध्या꣢शिरः । सू꣡रा꣢सो꣣ न꣡ द꣢र्श꣣ता꣡सो꣢ जिग꣣त्न꣡वो꣢ ध्रु꣣वा꣢ घृ꣣ते꣢ ॥११०२॥
स्वर सहित पद पाठते꣢ । पू꣣ता꣡सः꣢ । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । सो꣡मा꣢꣯सः । द꣡ध्या꣢꣯शिरः । द꣡धि꣢꣯ । आ꣣शिरः । सू꣡रा꣢꣯सः । न । द꣣र्शता꣡सः꣢ । जि꣣ग꣡त्न꣢वः । ध्रु꣣वा꣢ । घृ꣣ते꣢ ॥११०२॥
स्वर रहित मन्त्र
ते पूतासो विपश्चितः सोमासो दध्याशिरः । सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥११०२॥
स्वर रहित पद पाठ
ते । पूतासः । विपश्चितः । विपः । चितः । सोमासः । दध्याशिरः । दधि । आशिरः । सूरासः । न । दर्शतासः । जिगत्नवः । ध्रुवा । घृते ॥११०२॥
सामवेद - मन्त्र संख्या : 1102
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि गुरवो राजपुरुषाश्च वर्ण्यन्ते।
पदार्थः -
(पूतासः) पवित्राः, (विपश्चितः) विद्वांसः, (दध्याशिरः) ज्ञानधारकाः परिपक्वाश्च। [दधति अन्यान् इति दधयः। ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन डुधाञ् धातोः किन् प्रत्ययः। आश्रीणन्ति स्वात्मानं ये ते आशिरः। आङ्पूर्वः श्रीञ् पाके, क्विपि धातोः शिर आदेशश्छान्दसः।] (सूरासः न) सूर्याः इव (दर्शतासः२) दर्शनीयाः दृष्टिप्रदाश्च, (जिगत्नवः) गतिमन्तः, कर्मण्याः, (घृते) विवेकप्रकाशे (ध्रुवाः) स्थिराः ये स्युः (ते) त एव (सोमासः) विद्याधर्मादिप्रेरकाः गुरवः राजपुरुषाश्च भवेयुः ॥२॥
भावार्थः - ये पवित्राचरणा अधीतविविधविद्याः परेषां सहायकाः परिपक्वमतयः सूर्यवत् प्रकाशकाः कर्मशूराः स्थिरप्रकाशा विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि गृहीतं कार्यमपरित्यजन्तो गुरवो राजपुरुषाश्च भवन्ति त एव सफला जायन्ते ॥२॥
टिप्पणीः -
१. ऋ० ९।१०१।१२, ‘पूतासो’, ‘सूरासो’ इत्यत्र ‘पू॒ता’, ‘सूर्या॑सो॒’। २. दर्शतासः सर्वैर्दर्शनीयाः—इति सा०। सर्वस्य द्रष्टारः—इति वि०।