Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1103
ऋषिः - मनुः सांवरणः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
सु꣣ष्वाणा꣢सो꣣ व्य꣡द्रि꣢भि꣣श्चि꣡ता꣢ना꣣ गो꣡रधि꣢꣯ त्व꣣चि꣢ । इ꣡ष꣢म꣣स्म꣡भ्य꣢म꣣भि꣢तः꣣ स꣡म꣢स्वरन्वसु꣣वि꣡दः꣢ ॥११०३॥
स्वर सहित पद पाठसु꣣ण्वाणा꣡सः꣢ । वि । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । चि꣡ता꣢꣯नाः । गोः । अ꣡धि꣢꣯ । त्व꣣चि꣢ । इ꣡ष꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । अ꣣भि꣡तः꣢ । सम् । अ꣣स्वरन् । वसुवि꣡दः꣢ । व꣣सु । वि꣡दः꣢꣯ ॥११०३॥
स्वर रहित मन्त्र
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११०३॥
स्वर रहित पद पाठ
सुण्वाणासः । वि । अद्रिभिः । अ । द्रिभिः । चितानाः । गोः । अधि । त्वचि । इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुविदः । वसु । विदः ॥११०३॥
सामवेद - मन्त्र संख्या : 1103
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि त एव वर्ण्यन्ते।
पदार्थः -
(अद्रिभिः) मेघैरिव सरसैर्मनोभिः (सुष्वाणासः)उपदिशन्तः। [स्वन शब्दे, लिटः कानच्, द्वित्वम्। आज्जसेरसुक्।] (गोः) राष्ट्रभूम्याः (त्वचि अधि) पृष्ठे (चितानाः) शिक्षणकलां राजनीतिं च जानानाः, (वसुविदः) विद्याधनस्य सुवर्णादिधनस्य वा लम्भकाः, सोमासः गुरवो राजपुरुषाश्च (इषम्) अभीष्टं ज्ञानं धनं वा (अस्मभ्यम् अभितः) सर्वतः (समस्वरन्२) घोषयन्तु, प्रयच्छन्तु इति यावत् ॥३॥
भावार्थः - गुरुभी राजपुरुषैश्च विद्वद्भिः कीर्तिमद्भिर्विद्योपदेशकैरभीष्ट- धनादिप्रापकैश्च भाव्यम् ॥३॥
टिप्पणीः -
१. ऋ० ९।१०१।११। २. समस्वरन् सम्यक् शब्दयन्ति, प्रयच्छन्तीति यावत्—इति सा०।