Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1097
ऋषिः - शक्तिर्वासिष्ठः देवता - पवमानः सोमः छन्दः - सतोबृहती स्वरः - पञ्चमः काण्ड नाम -
5

य꣡स्य꣢ त꣣ इ꣢न्द्रः꣣ पि꣢बा꣣द्य꣡स्य꣢ म꣣रु꣢तो꣣ य꣡स्य꣢ वार्य꣣म꣢णा꣣ भ꣡गः꣢ । आ꣡ येन꣢꣯ मि꣣त्रा꣡वरु꣢꣯णा꣣ क꣡रा꣢मह꣣ ए꣢न्द्र꣣म꣡व꣢से म꣣हे꣢ ॥१०९७॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । ते꣣ । इ꣡न्द्रः꣢꣯ । पि꣡बा꣢꣯त् । य꣡स्य꣢꣯ । म꣣रु꣡तः꣢ । य꣡स्य꣢꣯ । वा꣣ । अर्यम꣡णा꣢ । भ꣡गः꣢꣯ । आ । ये꣡न꣢꣯ । मि꣣त्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । क꣡रा꣢꣯महे । आ । इ꣡न्द्र꣢꣯म् । अ꣡व꣢꣯से । म꣣हे꣢ ॥१०९७॥


स्वर रहित मन्त्र

यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः । आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥१०९७॥


स्वर रहित पद पाठ

यस्य । ते । इन्द्रः । पिबात् । यस्य । मरुतः । यस्य । वा । अर्यमणा । भगः । आ । येन । मित्रा । मि । त्रा । वरुणा । करामहे । आ । इन्द्रम् । अवसे । महे ॥१०९७॥

सामवेद - मन्त्र संख्या : 1097
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(यस्य ते) यस्य तव सोमस्य जगत्स्रष्टुर्जगदीश्वरस्य रसम् (इन्द्रः) सूर्यः (पिबात्) पिबति, (यस्य) यस्य तव रसम् (मरुतः) पवनाः पिबन्ति, (यस्य वा) यस्य च तव रसम् (अर्यमणा) अरि नियमनकर्त्रा बुद्धितत्त्वेन सह (भगः) मनः पिबति, (येन) त्वया सोमेन सर्वान्तर्यामिणा सर्वप्रेरकेण परमेश्वरेण, वयम् (मित्रावरुणा) मित्रावरुणौ प्राणापानौ (आ करामहे) अनुकूलं कुर्महे, येन च (महे अवसे) महते रक्षणाय (इन्द्रम्) जीवात्मानम् (आ करामहे) अनुकूलं कुर्मः, (सः) असौ त्वं सोमः परमेश्वरः (सुनुषे) सर्वं भौतिकं रसं दिव्यमानन्दरसं च अभिषुणोषि। अत्र ‘स सुन्वे’ इत्यस्य परिवर्तितं रूपं ‘स सुनुषे’ इति पूर्वमन्त्रादाकृष्यते ॥२॥

भावार्थः - परमेश्वरस्यैव रसेन शक्त्या च सर्वे दैहिका मनोबुद्धिप्राणादयो बाह्याः सूर्यचन्द्रनक्षत्रपर्जन्यपर्वतसमुद्रद्यावापृथिव्यादयश्च रसवन्तः शक्तिमन्तश्च दृश्यन्ते ॥२॥

इस भाष्य को एडिट करें
Top