Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1132
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प꣡व꣢मानो अ꣣भि꣢꣫ स्पृधो꣣ वि꣢शो꣣ रा꣡जे꣢व सीदति । य꣡दी꣢मृ꣣ण्व꣡न्ति꣢ वे꣣ध꣡सः꣢ ॥११३२॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानः । अ꣣भि꣢ । स्पृ꣡धः꣢꣯ । वि꣡शः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । सीदति । य꣢त् । ई꣣म् । ऋण्व꣡न्ति꣢ । वे꣣ध꣡सः꣢ ॥११३२॥


स्वर रहित मन्त्र

पवमानो अभि स्पृधो विशो राजेव सीदति । यदीमृण्वन्ति वेधसः ॥११३२॥


स्वर रहित पद पाठ

पवमानः । अभि । स्पृधः । विशः । राजा । इव । सीदति । यत् । ईम् । ऋण्वन्ति । वेधसः ॥११३२॥

सामवेद - मन्त्र संख्या : 1132
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थः -
(यत्) यदा (ईम्) एनम् आचार्यम् (वेधसः) विद्वांस अन्ये गुरवः (ऋण्वन्ति) प्राप्नुवन्ति, तदा अयम् (विशः) प्रजाजनान् राजा इव नृपतिरिव, शिष्यान् (पवमानः) पवित्राचरणान् कुर्वन् (स्पृधः) स्पर्धमानान् विद्यायागविघ्नकारिणः (अभि सीदति) अभिभवति ॥५॥ अत्रोपमालङ्कारः ॥५॥

भावार्थः - आचार्य इतरेषां सुयोग्यानां गुरुजनानां साहाय्येनैव छात्रान् विदुषः पवित्रहृदयांश्च कर्त्तुं पारयति ॥५॥ आचार्य दूसरे सुयोग्य गुरुजनों की सहायता से ही छात्रों को विद्वान् और पवित्र हृदयवाला करने में समर्थ होता है ॥५॥

इस भाष्य को एडिट करें
Top