Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1133
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣢व्या꣣ वा꣢रे꣣ प꣡रि꣢ प्रि꣣यो꣢꣫ हरि꣣र्व꣡ने꣢षु सीदति । रे꣣भो꣡ व꣢नुष्यते म꣣ती꣢ ॥११३३॥
स्वर सहित पद पाठअ꣡व्या꣢꣯ । वा꣡रे꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । ह꣡रिः꣢꣯ । व꣡ने꣢꣯षु । सी꣣दति । रेभः꣢ । व꣣नुष्यते । मती꣣ ॥११३३॥
स्वर रहित मन्त्र
अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभो वनुष्यते मती ॥११३३॥
स्वर रहित पद पाठ
अव्या । वारे । परि । प्रियः । हरिः । वनेषु । सीदति । रेभः । वनुष्यते । मती ॥११३३॥
सामवेद - मन्त्र संख्या : 1133
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(प्रियः) प्रीतियोग्यः, (हरिः) चित्ताकर्षको दोषाणामपहर्ता च आचार्यः (अव्याः वारे) पृथिव्याः वृते स्थाने (वनेषु) अरण्यस्य एकान्तप्रदेशेषु (परि सीदति) तिष्ठति। (रेभः)विद्योपदेशकः सः। [रेभते इति रेभः, रेभृ शब्दे भ्वादिः।] (मती) मत्या (वनुष्यते) विद्याविघ्नान् विनाशयति। [वनुष्यतिः हन्तिकर्माऽनवगतसंस्कारो भवति। निरु० ५।२।] ॥६॥
भावार्थः - विद्यायज्ञाय वनस्यैकान्तप्रदेश एव वरणीयो यत्र विघ्नकराणि नागरिकाणि प्रलोभनानि न भवेयुः ॥६॥
टिप्पणीः -
१. ऋ० ९।७।६, ‘अव्यो वारे’ इति पाठः.।